________________ शा० उपक्रमः श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 156 // १.१.५अ.२ परित्यज्य यदा परिणामान्तरेण समयमेकं स्थित्वा पुनस्तेनैव परिणामेन त्र्यादिसमयस्थितिकं जायते तदा जघन्यतया समयो [1] उपक्रमः। ऽन्तरे लभ्यते / उक्कोसेणं दो समयत्ति, तदेव यदा परिणामान्तरेण द्वौ समयौ स्थित्वा पुनस्तमेव त्र्यादिसमयस्थितियुक्तं प्राक्तनं परिणाममासादयति तदा द्वौ समयावुत्कृष्टतोऽन्तरे भवतः / यदि पुनः परिणामान्तरेण क्षेत्रादिभेदतः समयद्वयात्परतोऽपि 1.1 आनुपूर्वी। तिष्ठेत्तदा तत्राप्यानुपूर्वीत्वमनुभवेत्ततोऽन्तरमेव न स्यादिति भावः / नानाद्रव्याणांतुनास्त्यन्तरम्, सर्वदा लोकस्य तदशून्यत्वा सूत्रम् 196-198 दिति / अनानुपूर्वीचिन्तायां एगदव्वं पडुच्च जहण्णेणं दो समयत्ति, एकसमयस्थितिकं द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय कालानुपूर्वी। पुनस्तमेवैकसमयस्थितिकं परिणाममासादयति तदा समयद्वयं जघन्योऽन्तरकालः / यदि तु परिणामान्तरेणाप्येकमेव समयं न औप० अनौ० तिष्ठेत्तदान्तरमेव न स्यात्तत्राप्यनानुपूर्वीत्वाद् / अथ समयद्वयात्परतस्तिष्ठेत्तदा जघन्यत्वं न स्यादिति भावः / उक्कोसेणं असंखेज्जंत नै० व्य० अनौ० कालंत्ति, तदेव यदा परिणामान्तरेणासङ्खयेयकालमनुभूय पुनरेकसमयस्थितिकं परिणाममनुभवति तदोत्कृष्टतोऽसङ्खयेयोऽ कालानुपूर्वी। न्तरकालः प्राप्यते। प्ररूपणतादि आह, ननु चान्यान्यद्रव्यक्षेत्रसम्बन्धे तस्यानन्तोऽपि कालोऽन्तरे लभ्यते किमित्यङ्खयेय एवोक्तः? सत्यम्, किन्तु कालानुपूर्वीप्रक्रमात्कालस्यैवेह प्राधान्यं कर्तव्यम्, यदि त्वन्यान्यद्रव्यक्षेत्रसम्बन्धतोऽन्तरकालबाहुल्यं क्रियते, तदा तयारेणैवान्तरकालस्य बहुत्वकरणात्तयोर्द्वयोरेव प्राधान्यमाश्रितं स्यान्न कालस्य / तस्मादेकस्मिन्नेव परिणामान्तरे यावान्कश्चिदुत्कृष्टः कालो लभ्यते स एवान्तरे चिन्त्यते, सचासङ्खयेय एव। ततः परमेकेन परिणामेन वस्तुनोऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवत: सूत्रस्य विवक्षावैचित्र्यात्सर्वं पूर्वमुत्तरत्र चागमाविरोधेन भावनीयमिति / नानाद्रव्याणांतु नास्त्यन्तरं प्रतिप्रदेशं (r) एगं। 0 यदि' पदमधिकं वर्तते। i. अर्थपद पञ्चभेदाः। |१.१.५अ.२.५. ६-९अनुगमस्यान्तरभागभावाल्प बहुत्वद्वाराणि। // 156 //