________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 154 // [1] उपक्रमः। शा० उपक्रमः। | 1.1 आनुपूर्वी। सङ्खयेयभाग एव वर्तते / कथमिति? उच्यते, यत्कालतो द्विसमयस्थितिकं तत्क्षेत्रतो द्विप्रदेशावगाढमेवेहावक्तव्यकत्वेन गृह्यते, तच्च लोकासङ्खयेयभाग एव स्यादथवा द्विसमयस्थितिकं द्रव्यं स्वभावादेव लोकस्यासङ्ख्येयभाग एवावगाहते, न परतः, आदेशान्तरेण वा महखंधवज्जमन्नदवेसु आइल्लचउपुच्छासु होज्जत्ति, अस्य हृदयम्, मतान्तरेण किल द्विसमयस्थितिकमपि द्रव्यं किञ्चिल्लोकस्य सङ्खयेयभागेऽवगाहते किञ्चित्त्वसङ्खयेयेऽन्यत्तु सङ्खयेयेषु तद्भागेष्ववगाहतेऽपरं त्वसङ्खयेयेष्विति। महास्कन्धं वर्जयित्वा शेषद्रव्याण्याश्रित्य यथोक्तस्वरूपास्वाद्यासुचतसृषु पृच्छास्वेकमवक्तव्यकद्रव्यं लभ्यते, महास्कन्धस्य त्वष्टसमयस्थितित्वेनोक्तत्वान्न द्विसमयस्थितिकत्वसम्भव इति तद्वर्जनम्, अत एव सर्वलोकव्याप्तिलक्षणायाः पञ्चमपृच्छाया अत्रासम्भवः। महास्कन्धस्यैव सर्वलोकव्यापकत्वात्तस्य चावक्तव्यकत्वायोगादिति / एतदपि सूत्रं वाचनान्तरे क्वचिदेव दृश्यते। नानाद्रव्याणि तु सर्वलोके भवन्ति, द्विसमयस्थितीनां सर्वत्र भावादिति // सूत्रम् 193 // गतं क्षेत्रद्वारम्, (4) स्पर्शनाद्वारमप्येवमेव भावनीयम् // 194 / / (5) कालद्वारे (1) णेगमववहाराणं आणुपुब्विदव्वाई कालतो केवचिरहोंति? एगंदव्वं पडुच्च जहण्णेणूं तिष्णि समया, उक्कोसेणं असंखेनं कालं, नाणादव्वाइं पडुच्च सव्वद्धा, (2) णेगमववहाराणं अणाणुपुविदव्वाइंकालओ केवचिर होंति ?, एगदव्वं पडुच्च अजहण्णमणुक्कोसेणं एवं समयं, नाणादव्वाइं पडुच्च सव्वद्धा, (3) णेगम ववहाराणं अवत्तव्वयदव्वाइंकालतो केवचिरं होंति?, एगंदव्वं पडुच्च अजहण्णमणुक्कोसेणं दो समया नाणादव्वाइं पडुच्च सव्वद्धा / / सूत्रम् 195 / / एगदव्वं पडुच्च जहण्णेणं तिण्णि समयत्ति, जघन्यतोऽपि त्रिसमयस्थितिकस्यैवानुपूर्वीत्वेनोक्तत्वादिति भावः / उक्कोसेणं 0 हा। ब्वी। 0 चि। 0 होइ। 7 एगं / 0 अस्याः पृच्छाया: स्थाने, 'अवत्तव्वगदव्वाणं पुच्छा', इत्यस्ति / 0 (एक्कं) इत्यधिकम् / सूत्रम् 195 1.1.5 कालानुपूर्वी। औप० अनौ०। १.१.५अ.२ नै० व्य० अनौ० कालानुपूर्वी। i. अर्थपदप्ररूपणतादि पञ्चभेदाः। १.१.५अ.२.५. 5 अनुगमस्य कालद्वारम्। // 154 //