SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 153 / / [[1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 193-194 |1.1.5 कालानुपूर्वी। अत्राह-नन्वचित्तमहास्कन्धोऽप्येकसमयस्थितिको न भवति, दण्डाद्यवस्थासमयगणनें तस्याप्यष्टसमयस्थितिकत्वादेवं च सति तस्याप्यानुपूर्वीत्वात्सम्पूर्णलोकव्यापित्वंयुज्यतेऽत्र वक्तुमिति / नैतदेवम्, अवस्थाभेदेन वस्तुभेदस्येह विवक्षितत्वाद्भिन्नाश्च परस्परंदण्डकपाटाद्यवस्थाः, तद्भेदेन वस्तुनोऽपि भेदादन्यदेव दण्डकपाटाद्यवस्थाद्रव्येभ्यः सकललोकव्याप्यचित्तमहास्कन्धद्रव्यम्, तच्चैकसमयस्थितिकमिति न तस्यानुपूर्वीत्वम्, एतच्चानन्तरमेव पुनर्वक्ष्यत इत्यलं प्रसङ्गेन / अथवा यथा क्षेत्रानुपूर्त्यां तथात्रापि सर्वलोकव्यापिनोऽप्यचित्तमहास्कन्धस्य विवक्षामात्रमाश्रित्यैकस्मिन्नभःप्रदेशेऽप्राधान्याद्देशोनलोकवर्तित्वं वाच्यम् / एकसमयस्थितिकस्यानानुपूर्वीद्रव्यस्य द्विसमयस्थितिकावक्तव्यकस्य च तत्र प्रदेशे प्राधान्याश्रयणादिति भावः / एवमन्यदप्यागमाविरोधतो वक्तव्यमिति / नाणादव्वाइं पडुच्च णियमा सव्वलोए होज्जत्ति, त्र्यादिसमयस्थितिकद्रव्याणां सर्वलोकेऽपि भावादिति भावनीयम् / अनानुपूर्वीद्रव्यचिन्तायां यथा क्षेत्रानुपूर्त्यां तथात्राप्येकद्रव्यं लोकस्यासङ्खयेयभाग एव वर्तते / कथमिदम्? उच्यते, यत्कालत एक समयस्थितिकं तत्क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपूर्वीत्वेन विवक्ष्यते, तच्च लोकासङ्खयेयभाग एव भवति, आएसंतरेण वा सव्वपुच्छासु होज्जत्ति / अस्य भावना, इहाचित्तमहास्कन्धस्य दण्डाद्यवस्थाः परस्परं भिन्नाः, आकारादिभेदावित्रिचतुःप्रदेशकादिस्कन्धवत्ततश्च ता एकैकसमयवृत्तित्वात्पृथगनानुपूर्वीद्रव्याणि, तेषु च मध्ये किमपि कियत्यपि क्षेत्रे वर्तत इत्यनया विवक्षया किलैकमनानुपूर्वीद्रव्यं मतान्तरेण सङ्कत्येयभागादिकासु पञ्चस्वपि पृच्छासु लभ्यते / एतच्च सूत्रेषु प्रायो न दृश्यते, टीकाचूर्योस्त्वेवं व्याख्यातमुपलभ्यत इति / नानाद्रव्याणि तु सर्वस्मिन्नपि लोके भवन्ति, एकसमयस्थितिकद्रव्याणां सर्वत्र भावादिति / अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूर्व्यामिवैकद्रव्यं लोकस्याO नेन' इति। ॐ ततस्तद्भेदेन / 0 विस्तरेण / औप० अनौ०। |१.१.५अ.२ नै० व्य० अनौ० कालानुपूर्वी। i. अर्थपदप्ररूपणतादि पञ्चभेदाः। १.१.५अ.२.५. 3-4 अनुगमस्य क्षेत्रस्पर्शने द्वारे। // 153 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy