________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 145 // क्षेत्रविशेषा एव / एते च तिर्यग्लोके प्रत्येकमसङ्ख्यया भवन्ति।तत्र समस्तद्वीपसमुद्राभ्यन्तरभूतत्वेनादौ तावन्जम्बूवृक्षणोपलक्षितो द्वीपो जम्बूद्वीपः। ततस्तं परिक्षिप्य स्थितो लवणरसास्वादनीरपूरितः समुद्रो लवणसमुद्रः, एकदेशेन समुदायस्य गम्यमानत्वाद् / एवं पुरस्तादपि यथासम्भवं द्रष्टव्यम् / धायइ कालोयत्ति, ततोलवणसमुद्रं परिक्षिप्य स्थितो धातकीवृक्षषण्डोपलक्षितो द्वीपोधातकीषण्डः, तत्परितोऽपिशुद्धोदकरसास्वादः कालोदः समुद्रः।तंच परिक्षिप्य स्थितः पुष्करैः पद्मवरैरुपलक्षितो द्वीपः पुष्करवरद्वीपः। तत्परितोऽपि शुद्धोदकरसास्वाद एव पुष्करोदः समुद्रः। अनयोश्च द्वयोरप्येकेनैव पदेनात्र सङ्ग्रहो द्रष्टव्यः / पुक्खरेत्त्येवमुत्तरत्रापि / ततो वरुणे "त्ति वरुणवरो द्वीपस्ततो वारुणीरसास्वादो वारुणोदः समुद्रः / खीरे त्ति क्षीरवरो द्वीपः, क्षीररसास्वादः क्षीरोदः समुद्रः। घयत्ति घृतवरो द्वीपः, घृतरसास्वादो घृतोदः समुद्रः। खोयत्ति, इक्षुवरो द्वीपः, इक्षुरसास्वाद एवेक्षुरस: समुद्रः, इत ऊर्ध्वं सर्वेऽपि समुद्राः द्वीपसदृशनामानो मन्तव्याः। अपरं च स्वयम्भुरमणवर्जाः सर्वेऽपीक्षुरसास्वादाः। तत्र द्वीपनामान्यमूनि, तद्यथा नन्दीसमृद्धिस्तयेश्वरो द्वीपोनन्दीश्वरः / एवमरुणवरः, अरुणावासः कुण्डलवरः शङ्कवरः रुचकवर इत्येवं षड् द्वीपनामानि चूर्णी लिखितानि दृश्यन्ते सूत्रे तु नन्दी अरुणवरे कुण्डले रुयगे इत्येतस्मिन् गाथादले चत्वार्येव तान्युपलभ्यन्तेऽत: चूर्णिलिखितानुसारेण रुचकस्त्रयोदशः, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः॥ इदानीमनन्तरोक्तद्वीपसमुद्राणामवस्थितिस्वरूपप्रतिपादनार्थं शेषाणांतुनामाभिधानार्थमाह जंबुद्दीवाओखलु निरन्तरा सेसया असंखइमा। भुयगवरकुसवराविय कोंचवराभरणमाई य॥१॥ त्ति, व्याख्या, एते पूर्वोक्ताः सर्वेऽपि जम्बूद्वीपादारभ्य निरन्तरा ®ख। Oणो। रत्ति / 0 म्भू / 7 बू / 0 इति / [2] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 169-171 1.1.4 क्षेत्रानुपूर्वी। १.१.४आ.१ सङ्ग्रह० औप० क्षेत्रानुपूर्वी। १.१.४आ.१ अधोलोक क्षेत्रानुपूर्वी। i. पूर्वानुपूर्वी, | ii. पश्चानुपूर्वी, iii.अनानुपूर्वी। // 145 //