SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ BE श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 142 // [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 160-163 1.1.4 क्षेत्रानुपूर्वी। १.१.४आ.१ सङ्गह० औ० परिहृत्य परतः किचिन्यूनसप्तरज्वायत ऊर्ध्वलोकः। ऊर्द्धमुपरि व्यवस्थापितोलोक: ऊर्द्धलोकः / अथवोवंशब्दःशुभपर्यायः, तत्र च क्षेत्रस्य शुभत्वात्तदनुभावाद्व्याणां प्रायः शुभा एव परिणामा भवन्त्यत: शुभपरिणामवद्व्ययोगादूर्ध्वः शुभो लोक ऊर्ध्वलोकः / उक्तं च, उड्दति उवरि जंडिय सुभखित्तं खेत्तओ य दव्वगुणा / उप्पजंति सुभा वा तेण तओ उड्डलोगोत्ति॥१॥तयोवाधोलोकोर्ध्वलोकयोर्मध्येऽष्टादशयोजनशतानि तिर्यग्लोकः। समयपरिभाषया तिर्यमध्ये व्यवस्थितो लोकस्तिर्यग्लोकः। अथवा तिर्यक्शब्दो मध्यमपर्यायः, तत्र च क्षेत्रानुभावात्प्रायोमध्यमपरिणामवन्त्येव द्रव्याणि भवन्त्यतस्तद्योगात्तिर्यमध्यमो लोकस्तिर्यग्लोकः। अथवा स्वकीयोर्ध्वाधोभागात्तिर्यग्भाग एवातिविशालतयात्र प्रधानमतस्तेन व्यपदेशः कृतः, तिर्यग्भागप्रधानो लोकस्तिर्यग्लोकः। उक्तंच, मज्झणुभावं खेत्तं जंतं तिरियंति वयणपज्जवओ। भण्णइ तिरियं विसालं अतो व तं तिरियलोगोत्ति॥१॥ वयणपज्जवओत्ति / मध्यानुभाववचनस्य तिर्यग्ध्वने: पर्यायतामाश्रित्येत्यर्थः / अत्र च जघन्यपरिणामवव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाधोलोकस्योपन्यासः। तदुपरि मध्यमद्रव्यवत्त्वान्मध्यमतया तिर्यग्लोकस्य, तदुपरिष्टादुत्कृष्टद्रव्यवत्त्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः / पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव, अनानुपूर्त्यां तु पदत्रयस्यास्य षड्भङ्गा भवन्ति, तेच पूर्वं दर्शिता एव / शेषभावना त्विह प्राग्वदेवेति / अत्र च क्वचिद्वाचनान्तर एकप्रदेशावगाढादीनामसङ्ख्यातप्रदेशावगाढान्तानांप्रथमंपूर्वानुपूर्व्यादिभाव उक्तो दृश्यते, सोऽपि क्षेत्रानुपूर्व्यधिकारादविरुद्ध एव, सुगमत्वाच्चोक्तानुसारेण भावनीय इति // सूत्रम् 163 / / साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानुपूर्व्यादिभावं दिदर्शयिषुर Oऊर्ध्वमित्युपरि यदेव शुभक्षेत्रं क्षेत्रतश्च द्रव्यगुणाः। उत्पद्यन्ते शुभा वा तेन सक ऊर्ध्वलोक इति॥१॥ 0 चि। 0 संभ...'इति / 0 मध्यानुभावं क्षेत्रं यत्तत्तिर्यगिति वचनपर्यवात् / भण्यते तिर्यग् विशालमतो वा स तिर्यग्लोक इति // 1 // अस्ये'ति न वर्तते / क्षेत्रानुपूर्वी। i. पूर्वानुपूर्वी, ii. पश्चानुपूर्वी, iii.अनानुपूर्वी। // 142 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy