________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 141 // 1.1 आनुपूर्वी। उक्तानौपनिधिकी क्षेत्रानुपूर्व्यथोपनिधिकीं तां निर्दिदिक्षुराह से किं तं ओवणिहिया खेत्ताणुपुव्वी?२ तिविहा पण्णत्ता, तंजहा- पुव्वाणुपुव्वी 1 पच्छाणुपुव्वी 2 अणाणुपुव्वी 3 // सूत्रम् 160 // से किं तं पुव्वाणुपुव्वी? 2 अहोलोए 1 तिरियलोए 2 उड्डलोए 3, से तं पुव्वाणुपुव्वी / / सूत्रम् 161 // से किं तं पच्छाणुपुव्वी? 4 उहलोए 1 तिरियलोए 2 अहोलोए 3, से तं पच्छाणुपुव्वी // सूत्रम् 162 // से किंतं अणाणुपुव्वी?,२ एयाए चेव एगादियाए एगुत्तरियाए तिगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, सेतं अणाणुपुव्वी ॥सूत्रम् 163 // से किंतं ओवणिहितेत्यादि / अत्र व्याख्या पूर्ववत्कर्तव्या। नवरंतत्र द्रव्यानुपूर्व्यधिकाराद्धर्मास्तिकायादिद्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतान्यत्र तु क्षेत्रानुपूर्व्यधिकारादधोलोकादिक्षेत्रविशेषा इति / इह चोर्ध्वाधश्चतुर्दशरज्वायतस्य विस्तरतस्त्वनियतस्य पञ्चास्तिकायमयस्य लोकस्य त्रिधा परिकल्पनेऽधोलोकादिविभाग:सम्पद्यते। तत्रास्यां रत्नप्रभायां बहुसमभूभागे मेरुमध्ये नभःप्रतरद्वयेऽष्टप्रदेशोरुचकः समस्ति, तस्य प्रतरद्वयस्य मध्य एकस्मादधस्तनप्रतरादारभ्याधोऽभिमुखं नव योजनशतानि परिहृत्य परतः सातिरेकसप्तरज्ज्वायतोऽधोलोकः / तत्र लोक्यते केवलिप्रज्ञया परिच्छिद्यत इति लोकः / अधोव्यवस्थितो लोकोऽधोलोकः / अथवाधःशब्दोऽशुभपर्यायः, तत्र च क्षेत्रानुभावाबाहुल्येनाशुभ एव परिणमो द्रव्याणांजायतेऽतोऽशुभपरिणामवद्व्ययोगादधोऽशुभो लोकोऽधोलोकः। उक्तंच, अहव अहोपरिणामो खेत्तणुभावेण जेण ओसणं / असुभो अहोत्ति | भणिओ दव्वाणं तेणऽहोलोगो॥१॥त्ति, तस्यैव रुचकप्रतरद्वयस्य मध्ये एकस्मादुपरितनप्रतरादारभ्योर्ध्वं नव योजनशतानि O विभागाः सम्पद्यन्ते। 0 चे'त्यधिकम् / 0 अथवाऽध:परिणाम: क्षेत्रानुभावेन येनोत्सन्नम्। अशुभोऽध इति भणित: द्रव्याणां तेनाधोलोकः॥१॥ सूत्रम् 160-163 1.1.4 क्षेत्रानुपूर्वी। १.१.४आ.१ सङ्गह० औ० | क्षेत्रानुपूर्वी। i. पूर्वानुपूर्वी, ii. पश्चानुपूर्वी, iii.अनानुपूर्वी। // 141 //