SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 136 // अन्ये तुव्याचक्षते, यस्मात् त्र्यादिप्रदेशलक्षणाद्विवक्षितक्षेत्रात्तदानुपूर्वीद्रव्यमन्यत्र गतम्, तस्य क्षेत्रस्य स्वभावादेवासङ्ख्येयकालादूर्ध्वं तेनैवानुपूर्वीद्रव्येण वर्णगन्धरसस्पर्शसङ्ख्यादिधर्म: सर्वथा तुल्येनान्येन वा तथाविधाधेयेन संयोगेसति नियमात्तथाभूताधारतोपपत्तेरसङ्खयेय एवान्तरकाल इति / तत्त्वं तु केवलिनो विदन्ति, गम्भीरत्वात्सूत्रप्रवृत्तेरिति / नाणादव्वाइमित्यादि। न हि त्र्यादिप्रदेशावगाढानुपूर्वीद्रव्याणि युगपत्सर्वाण्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि सम्भवति, असङ्खयेयानां तेषां सर्वदैवोक्तत्वादिति भावः / अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रयाऽन्तरकालवक्तव्यता। केवलमनानुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्यकद्रव्यस्य तु द्विप्रदेशावगाढस्य पुनस्तथाभवनेऽन्तरकालश्चिन्तनीयः ।शेषा तु व्याख्याद्वयभावना सर्वापि तथैवेति ॥सूत्रम् 155 // उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारमुच्यते। णेगमववहाराणं आणुपुव्वीदव्वाइंसेसदव्वाणं कतिभागे होजा?, तिण्णिविजहा दव्वाणुपुव्वीए॥सूत्रम् 156 // तत्र यथा द्रव्यानुपूा तथात्राप्यानुपूर्वीद्रव्याण्यनानुपूर्व्यवक्तव्यकलक्षणेभ्यः शेषद्रव्येभ्योऽसङ्खयेयै गैरधिकानि, शेषद्रव्याणि तु तेषामसङ्खयेयभागे वर्तन्त इति / अत्राह, ननुत्र्यादिप्रदेशावगाढानि द्रव्याण्यानुपूर्व्यः, एकैकप्रदेशावगाढान्यनानुपूर्व्यः, द्विद्विप्रदेशावगाढान्यवक्तव्यकानीति प्राक्प्रतिज्ञातम्, एतानि चानुपूर्व्यादीनि सर्वस्मिन्नपि लोके सन्ति, अतो युक्त्या विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते / तथाहि, असत्कल्पनया किल लोके त्रिंशत्प्रदेशाः, तत्र चानानुपूर्वीद्रव्याणि त्रिंशदेवावक्तव्यकानि तु पञ्चदशानुपूर्वीद्रव्याणि तु यदि सर्वस्तोकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भवन्तीति शेषेभ्यःस्तोकान्येव प्राप्नुवन्ति, कथमसङ्खयेयगुणानि स्युरिति?, अत्रोच्यते, एकस्मिन्नानुपूर्वीद्रव्ये ये नभःप्रदेशा उपयुज्यन्ते ते यद्यन्यस्मिन्नपि नोपयुज्येरैस्तदा स्यादेवम् / तच्च नास्ति, यत एकस्मिन्नपि प्रदेशत्रयनिष्पन्न आनुपूर्वीद्रव्ये ये [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 156 1.1.4 क्षेत्रानुपूर्वी। नै० व्य० अनौ० क्षेत्रानु० १.१.४अ.२.५ अनुगमः। १.१.४अ.२.५.७ भागद्वारम्। // 136 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy