SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 137 // [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। 1.1.4 क्षेत्रानुपूर्वी। त्रयः प्रदेशास्त एवान्यान्यरूपतयावगाढेनाधेयद्रव्येणाक्रान्ता:सन्तः प्रत्येकमनेकेषु त्रिकसंयोगेषुगण्यन्ते, प्रतिसंयोगमाधेयद्रव्यस्य भेदात्तद्भेदे चाधारभेदादिति भावः / एवमन्यान्यचतुष्प्रदेशावगाढाद्याधेयेनाध्यासितत्वात्त एवानेकेषु चतुष्कसंयोगेष्वनेकेषु पञ्चकसंयोगेषु यावदनेकेष्वसङ्खयेयकसंयोगेषु प्रत्येकमुपयुज्यन्ते। एवं चतुरादिप्रदेशनिष्पन्नेष्वप्यानुपूर्वीद्रव्येषु ये चतुरादयः प्रदेशास्तेषामप्यन्यान्यसंयोगोपयोगिता भावनीया। तस्मादसङ्खयेयप्रदेशात्मके स्वस्थित्या व्यवस्थिते लोके यावन्तस्त्रिकसंयोगादयोऽसङ्ख्येयकसंयोगपर्यन्ता:संयोगा जायन्ते तावन्त्यानुपूर्वीद्रव्याणि भवन्ति, प्रतिसंयोगमाधेयद्रव्यस्य भेदेनावस्थितिसद्भावादाधेयभेदे चाधारभेदात्, न हि नभःप्रदेशा येनैव स्वरूपेणैकस्मिन्नाधेय उपयुज्यन्ते तेनैव स्वरूपेणाधेयान्तरेऽपि, आधेयैकताप्रसङ्गात्, एकस्मिन्नाधारस्वरूपे तदवगाहाभ्युपगमाद्, घट(टे)तत्स्वरूपवत् / तस्मात्त्र्यादिसंयोगानां लोके बहुत्वादानुपूर्वीणां बहुत्वं भावनीयम्, अवक्तव्यकानि तु स्तोकानि, द्विकसंयोगानां तत्र स्तोकत्वाद्, अनानुपूर्दोऽपि स्तोका एव, लोकप्रदेशसङ्ख्यामात्रत्वाद्। अत्र सुखप्रतिपत्त्यर्थं लोके किल पञ्चाकाशप्रदेशाः कल्प्यन्ते, तद्यथा, / अत्रानानुपूर्व्यस्तावत्पञ्चैव प्रतीताः, अवक्तव्यकानि त्वष्टौ, द्विकसंयोगानामिहाष्टानामेव सम्भवाद्, आनुपूर्व्यस्तु षोडश संभवन्ति, दशानां त्रिकसंयोगानांपञ्चानां चतुष्कसंयोगानामेकस्य तु पञ्चकयोगस्येह लाभाद्, दश त्रिकयोगाः कथमिह लभ्यन्ते? इति चेदुच्यते / षट् तावत्मध्यव्यवस्थापितेन सह लभ्यन्ते, चत्वारस्तु त्रिकसंयोगा दिग्व्यवस्थापितैश्चतुभिरेव केवलैरिति / चतुष्कसयोगास्तु चत्वारोमध्यव्यवस्थितेन सह लभ्यन्ते, एकस्तुतन्निरपेक्षैर्दिग्व्यवस्थितैरेवेति सर्वे पञ्च, पञ्चकसंयोगस्तु प्रतीत एवेति / तदेवं प्रदेशपञ्चकप्रस्तारे 0'स' इति न वर्तते / स्थापितेन / 0'' इति न वर्तते / क्षेत्रानु० १.१.४अ.२.५ अनुगमः। 1.1.4 भागद्वारमा // 137 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy