SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 135 // समयोऽवगाहस्थितिः / असङ्खयेयकालादूर्ध्वं द्विप्रदेशावगाहं परित्यजत उत्कृष्टतोऽसङ्खयेयोऽवगाहस्थितिकाल: सिद्ध्यति। [[1] उपक्रमः। नानाद्रव्याणि तु सर्वकालम्, द्विप्रदेशावगाढद्रव्यभेदानां सदैव भावादित्येवं समानवक्तव्यत्वादतिदिशति, एवं दोण्णिवित्ति। शा० उपक्रमः। इदानीमन्तरद्वारम् 1.1 आनुपूर्वी। णेगमववहाराणं आणुपुव्वीदव्वाणमंतरं कालतो केवचिर होति?, तिष्णिवि एगं दव्वं पडुच्च जहण्णेणं एग समय, उक्कोसेणं सूत्रम् 155 1.1.4 असंखेचं कालं, णाणादव्वाई पडुच्च णत्थि अंतरं // सूत्रम् 155 // क्षेत्रानुपूर्वी। जहण्णेणं एँग समयंति, अत्र भावना, इह यदा त्र्यादिप्रदेशावगाढं किमप्यानुपूर्वीद्रव्यं समयमेकं तस्माद्विवक्षितक्षेत्रादन्यत्रा-2 नै० व्य० अनौ० क्षेत्रानु० वगाहं प्रतिपद्य तेष्वेव त्र्याद्याकाशप्रदेशेष्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्यान्तरकालः प्राप्यते / उक्कोसेणं असंखेज कालंति / तदेव यदान्येषु क्षेत्रप्रदेशेष्वसङ्कयेयंकालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्तं वा समागत्य पुनरपितेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसङ्खयेयोऽन्तरकालः प्राप्यते, नपुनर्द्रव्यानुपूर्व्यामिवानन्तः, यतो द्रव्यानुपूर्त्यां विवक्षितद्रव्यादन्ये द्रव्यविशेषा अनन्ता:प्राप्यन्ते, तैश्च सह क्रमेण संयोग उक्तोऽनन्तः कालः। अत्र तु विवक्षितावगाहक्षेत्रादन्यत्क्षेत्रमसङ्ख्येयमेव, प्रतिस्थानं चावगाहनामाश्रित्य संयोगस्थितिरत्राप्यसङ्ख्येयकालैव / ततश्चासङ्खयेये क्षेत्रे परिभ्रमता द्रव्येण पुनरपिकेवलेनान्यसंयुक्तेन वासङ्खयेयकालात्तेष्वेव नभःप्रदेशेष्वागत्यावगाहनीयम् / न च वक्तव्यमसङ्ग्येयेऽपि क्षेत्रे पौन:पुन्येन तत्रैव भ्रमणे कस्मादनन्तोऽपि कालो नोच्यत इति? यत इहासङ्खयेयेक्षेत्रेऽसङ्खयेयकालमेवान्यत्र तेन पर्यटितव्यम् / तत ऊर्ध्वं पुनस्तस्मिन्नेव विवक्षितक्षेत्रे नियमादवगाहनीयम्, वस्तुस्थितिस्वाभाव्यादिति तावदेकीयं व्याख्यानमादर्शितम्। Oचि। लेण्हंपि। 0 क्कं / एकस्मा। 7 पुनरपि केवलमन्यद्रव्यसंयुक्तं वा तेष्वेव विवक्षित'त्र्याद्या..इतिरूपेण पाठो वर्तते / 0 जघन्योऽ। परिभ्रमणे। १.१.४अ.२.५ अनुगमः। १.१.४अ.२.५.६ अन्तरद्वारम्। // 135 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy