________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 132 // [1] उपक्रमः। शा० उपक्रमः 1.1 आनुपूर्वी। देशत्वस्यैव तत्र प्राधान्येन विवक्षितत्वादिति भावः।नच वक्तव्यं देशिनो देशोन कश्चिद्भिन्नोदृश्यते, एकान्ताभेदे देशमात्रस्य देशिमात्रस्य वाभावप्रसङ्गात्, ततश्च समस्तलोकक्षेत्रावगाहपर्यायस्य प्राधान्याश्रयणादत्राचित्तमहास्कन्धस्यानुपूर्वीत्वेऽपि देशोन एव लोकः, स्वकीयैकस्मिन्देशे तस्याभावविवक्षणात्तस्मिंश्चानुपूर्व्यव्याप्तदेश इतरयोरवकाशः सिद्धो भवतीति भावः। नच देशदेशिभाव: कल्पनामात्रम्, सम्मत्यादि (गा०३७) न्यायनिर्दिष्टयुक्तिसिद्धत्वादित्यलं प्रसङ्गेन / नाणादव्वाइमित्यादि। त्र्यादिप्रदेशावगाढद्रव्यभेदतोऽत्रानुपूर्वीणां नानात्वम्, तैश्च त्र्यादिप्रदेशावगाडैर्द्रव्यभेदैः सर्वोऽपि लोको व्याप्त इति भावः। अत्रानानुपूर्वीचिन्तायामेकद्रव्यं प्रतीत्य लोकस्यासङ्ख्येय भागवर्तित्वमेव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वेन प्रतिपादनादेकप्रदेशस्य च लोकासङ्खयेयभागवर्तित्वादिति, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जत्ति, एकैकप्रदेशावगाडैरपि द्रव्यभेदैः समस्तलोकव्याप्तेरित्येवमवत्तव्वगदव्वाणिवित्ति, अवक्तव्यकद्रव्यमप्येकं लोकासङ्खयेयभाग एव वर्तते, द्विप्रदेशावगाढस्यैवावक्तव्यकत्वेनाभिधानात्प्रदेशद्वयस्य च लोकासङ्खयेयभागवृत्तित्वादिति / तथा प्रत्येकं द्विप्रदेशावगाद्वैरपि द्रव्यभेदैः समस्तलोकव्याप्ते नाद्रव्याणामत्रापि सर्वलोकव्यापित्वमवसेयमिति। अत्राह-नन्वानुपूर्व्यादिद्रव्याणि त्रीण्यपि सर्वलोकव्यापीनीत्युक्तानि, ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्वेवेतरयोरपि सद्भाव: प्रतिपादितो भवति, कथं चैतत्परस्परविरुद्धं भिन्नविषयं व्यपदेशत्रयमेकस्य स्यात्? अत्रोच्यते, इह त्र्यादिप्रदेशावगाढाव्याद्भिन्नमेव तावदेकप्रदेशावगाढम्, ताभ्यां च भिन्नं द्विप्रदेशावगाढम्, ततश्चाधेयस्यावगाहकद्रव्यस्य भेदादाधारस्याप्यवगाह्यस्य भेदः स्यादेव, तथा च व्यपदेशभेदो युक्त एव, अनन्तधर्माध्यासिते च वस्तुनि तत्तत्सहकारिसन्निधानात्त चा। 0 वर्ति। सूत्रम् 152 1.1.4 क्षेत्रानुपूर्वी। 1.1.4.1 औपनिधिकी। 1.1.4.2 अनौपनिधिकी। 1.1.4.2.5 अनुगमः। १.१.४अ.२.५.३ क्षेत्रद्वारम्। // 132 //