SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 131 // 1.1.4.1 1.1.4.2 समयस्थितिः। यदि चात्रानुपूर्व्याः सर्वलोकव्यापिता निर्दिश्येत तदाऽनानुपूर्व्यवक्तव्यकद्रव्याणां निरवकाशतयाऽभावः [1] उपक्रमः। प्रतीयेत, ततोमहास्कन्धपूरितेऽपि लोके जघन्यतोऽप्येकः प्रदेशोऽनानुपूर्वीविषयत्वेन प्रदेशद्वयं चावक्तव्यकविषयत्वेन विवक्ष्यते, आनुपूर्वीद्रव्यस्य तत्र सत्त्वेऽप्यप्राधान्यविवक्षणादनानुपूर्व्यवक्तव्यकयोस्तु प्राधान्यविवक्षणादिति भावः। ततोऽनेन 1.1 आनुपूर्वी। प्रदेशत्रयलक्षणेन देशेन हीनोऽत्र लोकः प्रतिपादित इत्यदोषः / उक्तं च पूर्वमुनिभिः महखंधापुण्णेविऽवत्तव्वगऽणाणुपुब्विदव्वाइं। सूत्रम् 152 जद्देसोगाढाई तद्देसेणं स लोगूणो॥१॥ ननु यद्येवं तर्हि द्रव्यानुपूर्व्यामपि सर्वलोकव्यापित्वमानुपूर्वीद्रव्यस्य यदुक्तं तदसङ्गतं क्षेत्रानुपूर्वी। प्राप्नोति ।अनानुपूर्व्यवक्तव्यकद्रव्याणामनवकाशत्वेन तत्राप्यभावप्रतीतिप्रसङ्गात्सर्वकालंच तेषामप्यवस्थितिप्रतिपादनात्। औपनिधिकी। नैतदेवम्, यतो द्रव्यानुपूर्व्या द्रव्याणामेवानुपूर्व्यादिभाव उक्तो न क्षेत्रस्य, तस्य तत्रानधिकृतत्वाव्याणां चानुपूर्व्यादीनां परस्परभिन्नानामप्येकत्रापि क्षेत्रेऽवस्थानं न किञ्चिद्विरुध्यते। एकापवरकान्तर्गतानेकप्रदीपप्रभावस्थानदृष्टान्तादिसिद्धत्वादतो अनौपनिधिकी। 1.1.4.2.5 न तत्र कस्याप्यनवकाशः / अत्र तु द्रव्याणामौपचारिक एवानुपूर्व्यादिभावः, मुख्यस्तु क्षेत्रस्यैव, क्षेत्रानुपूर्व्यधिकारात्, ततो यदि लोकप्रदेशा:सामस्त्येनैवानुपूर्व्या क्रोडीकृताः स्युस्तदा किमन्यदनानुपूर्व्यवक्तव्यकतया प्रतिपद्येत?, यस्त्विहैव येष्वाकाशप्रदेशेष्वानुपूर्व्यास्तेष्वेवेतरयोरपि सद्भावः कथयिष्यते स द्रव्यावगाहभेदेन क्षेत्रभेदस्य विवक्षणादत्र तु तदविवक्षणादिति। तस्मादनानुपूर्व्यवक्तव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति / अथवानुपूर्वीद्रव्यस्य स्वावयवरूपा देशाः कल्प्यन्ते, यथा पुरुषस्याङ्गल्यादयः, ततश्च विवक्षिते कस्मिंश्चिद्देशे देशिनोऽसद्भावो विवक्ष्यते, यथा पुरुषस्यैवाङ्गलीदेशे, // 131 // 0 प्रतीयते(येत)। (c) 'ऽचित्ते'त्यधिकं वर्तते / 0 महास्कन्धापूर्णेऽपि च अवक्तव्यकानानुपूर्वीद्रव्याणि / यद्देशावगाढानि तद्देशेन स लोकोनः // 1 // पुण्णेऽविय अवत्त..। अनुगमः। १.१.४अ.२.५.३ क्षेत्रद्वारम्।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy