________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 129 // सूत्रम् 1.1.4 परूवणयेत्यादिवक्ष्यमाणबहुतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात्क्षेत्रस्य तु नित्यत्वेन सदावस्थितमान- [1] उपक्रमः। त्वादचलत्वाच्च प्रायो वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिष्यमतिव्युत्पत्त्यविषयत्वाद्, एवमन्यदपि कारणमभ्यूह्यमित्यलं विस्तरेण, एवं चतुष्प्रदेशावगाढादिष्वपि भावना कार्या, यावदसङ्ख्यातप्रदेशावगाढा(ढ?)आनुपूर्वीति / 1.1 आनुपूर्वी। असङ्ख्यातप्रदेशेषुचावगाढोऽसङ्ख्याताणुकोऽनन्ताणुको वा द्रव्यस्कन्धोमन्तव्यः, यत: पुद्गलद्रव्याणामवगाहमित्थं जगद्गुरवः 142-151 प्रतिपादयन्ति / परमाणुराकाशस्यैकस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशिकादयोऽसङ्ख्यातप्रदेशिकान्तास्तु स्कन्धाः प्रत्येक जघन्यत एकस्मिन्नाकाशप्रदेशेऽवगाहन्ते, उत्कृष्टतस्तु यत्र स्कन्धे यावन्त: परमाणवो भवन्ति स तावत्स्वेव नभः प्रदेशेष्वव- क्षेत्रानुपूर्वी। 1.1.4.1 गाहते। अनन्ताणुकस्कन्धस्तु जघन्यतस्तथैवोत्कृष्टतस्त्वसङ्खयेयेष्वेव नभः प्रदेशेष्ववगाहते, नानन्तेषु, लोकाकाशस्यैवा- औपनिधिकी। सङ्खयेयप्रदेशत्वादलोकाकाशे च द्रव्यस्यावगाहाभावादित्यलं प्रसङ्गेन। प्रकृतमुच्यते। तत्रानुपूर्वीप्रतिपक्षत्वादनानुपूर्व्यादि 1.1.4.2 अनौपनिधिकी। स्वरूपमाह, एगपएसोगाढे अणाणुपुञ्चित्त्येकस्मिन्नभ:प्रदेशेऽवगाढः स्थित एकप्रदेशावगाढः परमाणुसङ्घातः स्कन्धसङ्घातश्च १.१.४अ.२.५. क्षेत्रतोऽनानुपूर्वीति मन्तव्यः / दुप्पएसोगाढे अवत्तव्वएत्ति, प्रदेशद्वयेऽवगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकम्, शेषो. 1-2 नै० व्य० अनौ० क्षेत्रानु० बहुवचननिर्देशादिको ग्रन्थो यथाधस्ताव्यानुपूर्त्या व्याख्यातस्तथेहापि तदुक्तानुसारतो व्याख्येयः / यावद्रव्यप्रमाणद्वारे अनुगमस्याये द्वे नेगमववहाराणं आणुपुत्वीदव्वाइं किं संखेज्जाइमित्यादि प्रश्नः, अत्रोत्तरम् नो संखेन्जाइमित्यादि ।त्र्यादिप्रदेशविभागावगाढानि द्रव्याणि क्षेत्रत आनुपूर्वीत्वेन निर्दिष्टानि, त्र्यादिप्रदेशविभागाश्चासङ्ख्यातप्रदेशात्मके लोकेऽसङ्ख्याता भवन्त्यतो द्रव्यतया बहूनामपि क्षेत्रावगाहमपेक्ष्य तुल्यप्रदेशावगाढानामेकत्वात्क्षेत्रानुपूर्व्यामसङ्खयातान्येवानुपूर्वीद्रव्याणि भवन्तीति भावः। एवमेकप्रदेशावगाढं बह्वपि द्रव्यं क्षेत्रत एकैवानानुपूर्वीत्युक्तम्, लोके च प्रदेशा असङ्ख्याता भवन्त्यतस्तत्तुल्यसङ्ख्यत्वाद®णे० (मु०)। पञ्चभेदाः। // 129 //