SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 124 // [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। स्थापितशेषो द्विको दीयते / ततोऽयं द्वितीयो भङ्गः 213, अत्रच द्विकस्य विद्यते एकको ज्येष्ठः, परंनासौ तदधस्तान्निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गाद् / एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः, स तदधस्तान्निक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु स्थापितशेषावेककत्रिको क्रमेण स्थाप्येते पुव्वक्कमो सेसेत्तिवचनात् / ततस्तृतीयोऽयं भङ्गः 132, अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य तु ज्येष्ठो द्विकः, न च निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः। ततोऽस्यैवानुज्येष्ठ एककःस्थाप्यते, अग्रतस्तु द्विकः उवरिमतुल्लमित्यादिवचनात्पृष्ठतस्तुस्थापितशेषस्त्रिको दीयत इति चतुर्थोऽयं भङ्गः 312 / एवमनया दिशा पञ्चमषष्ठावप्यभ्यूह्यौ। सर्वेषां चामीषामियं स्थापना-अत्राप्याद्य- 123 भङ्गस्य पूर्वानुपूर्वीत्वादन्त्यस्य च पश्चापुनूर्वीत्वान्मध्यमा एव चत्वारोऽनानुपूर्वीत्वेन मन्तव्याः। एवम योद्दिष्ट्या 213 चतुरादिपदसम्भविनोऽपि भङ्गा भावनीयाः / भूयांसश्चेहोत्तराध्ययनटीकादिनिर्दिष्टाः प्रस्तुतभङ्गानयनोपायाः सन्ति, न चोच्यन्तेऽतिविस्तरभयात्तदर्थिना तु तत एवावधारणीयाः। तदिदमत्र तात्पर्यम्, पूर्वानुपूर्ध्या तावद्धर्मास्तिकायस्य प्रथमत्वमेव, तदनुक्रमेणाधर्मास्तिकायादीनां द्वितीयादित्वम्, पश्चानुपूर्त्यां त्वद्धासमयस्य प्रथमत्वम्, पुद्गलास्तिकायादीनां तु प्रतिलोमतया द्वितीयादित्वम् / अनानुपूर्त्यां त्वनियमेन क्वचिद्भङ्गके कस्यचित्प्रथमादित्वमित्यलं विस्तरेण / से तमित्यादि निगमनम् // 134 // तदेवमत्र पक्षे धर्मास्तिकायादीनि षडपि द्रव्याणि पूर्वानुपूर्व्यादित्वेनोदाहृतानि, साम्प्रतं त्वेकमेव पुद्गलास्तिकायमुदाहर्तुमाह__ अहवा ओवणिहिया दव्वाणुपुव्वी तिविहा पन्नत्ता तंजहा-पुव्वाणुपुव्वी 1 पच्छाणुपुव्वी 2 अणाणुपुव्वी 3 // सूत्रम् 135 // (r) एकस्य / ॐ 'तु' न वर्तते / 0 मनया दिशा। 0 प्रथमत्वमित्यलं / सूत्रम् 132-134 १.१.३.३व्य० द्रव्यानुपूा |1.1.3.3.1 सङ्गह०औ० द्रव्यानु० i. पूर्वानुपूर्वी, i. पश्चानुपूर्वी, iii.अनानुपूर्वी त्रिभेदा:तरूपरूपश सूत्रम् 135-138 प्रकारान्तरेणोपनिधिक्या द्रानुपूया पूर्वानुपूर्व्यादि भेदत्रयं तद्विवरण च। // 124 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy