________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 121 // दूषणजालमस्ति, न चोच्यते ग्रन्थविस्तरभयादिति / आकाशं तु जीवादिपदार्थानामाधारान्यथाऽनुपपत्तेरस्तीति श्रद्धेयम् / न च धर्माधर्मास्तिकायावेव तदाधारो भविष्यतीति वक्तव्यम्, तयोस्तद्गतिस्थितिसाधकत्वेनोक्तत्वात्, न चान्यसाध्यं कार्यमन्यः साधयत्यतिप्रसङ्गादिति ।घटादिज्ञानगुणस्य प्रतिप्राणि स्वसंवेदनसिद्धत्वाज्जीवस्यास्तित्वमवसातव्यम् / न च गुणिनमन्तरेण गुणसत्ता युक्ताऽतिप्रसङ्गात् / न च देह एवास्य गुणी युज्यते, यतो ज्ञानममूर्त चिद्रूपं सदैवेन्द्रियगोचरातीतत्वादिधर्मोपेतमत: तस्यानुरूप एव कश्चिद्गुणी समन्वेषणीयः, स च जीव एव न तु देहो विपरीतत्वाद् / यदि पुनरननुरूपोऽपि गुणानां गुणी कल्प्यते तॉनवस्था, रूपादिगुणानामप्याकाशादेर्गुणित्वकल्पनाप्रसङ्गादिति। पुद्गलास्तिकायस्य तु घटादिकार्यान्यथानुपपत्तेः प्रत्यक्षत्वाच्च सत्त्वं प्रतीतमेवेति / कालोऽप्यस्ति बंकुलाशोकचम्पकादिषु पुष्पफलप्रदानस्यानियमेनादर्शनाद् / यस्तु तत्र नियामकः स काल इति / स्वभावादेव तु तद्भवने, नित्यं सत्त्वमसत्त्वं वे (प्रमाण वा० 3/35) त्यादिदूषणप्रसङ्गः। अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थदुरवगमताभयादिति / आह, धर्मास्तिकायस्य प्राथम्यमधर्मास्तिकायादीनां तु तदनन्तरं क्रमेणेत्थं निर्देशः कुतः सिद्धो? येनात्र पूर्वानुपूर्वीरूपता स्यादित्यत्रोच्यते, आगम इत्थमेव पठितत्वात् / तत्रापि कथमित्थमेव पाठ इति चेदुच्यते, धर्मास्तिकाय इत्यत्र यदाद्यं धर्मेतिपदं तस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यासः। ततस्तत्प्रतिपक्षत्वादधर्मास्तिकायस्य, ततस्तदाधारत्वादाकाशास्तिकायस्य / ततः स्वाभाविकामूर्तत्वसाम्याज्जीवास्तिकायस्य / ततस्तदुपयोगित्वात्पुद्गलास्तिकायस्य / ततो जीवाजीवपर्यायत्वात्तदनन्तरमद्धासमयस्योपन्यास इति पूर्वानुपूर्वीसिद्धिरिति // 132 // अथ पश्चानुपूर्वी निरूपयितुमाह- से किं तं पच्छाणुपुत्वीत्यादि। पाश्चात्त्यादारभ्य प्रतिलोभं व्यत्ययेनैवानुपूर्वी परिपाटिः हु। [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् |132-134 1.1.3.3 व्य० द्रव्यानुपूर्ध्या |1.1.3.3.1 सङ्गह०औ० द्रव्यानु० i. पूर्वानुपूर्वी, ii. पश्चानुपूर्वी, iii.अनानुपूर्वी त्रिभेदा:तरूपरूपञ्च। // 121 //