________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 120 // 132-134 लोकालोकव्याप्यनन्तप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः / जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवाः, तेच तेऽस्तिकाया [1] उपक्रमः। श्चेति समासः / प्रत्येकवयेयप्रदेशात्म सकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः / पूरणगलनधर्माणः पुद्गला: परमाण्वा शा० उपक्रमः। दयोऽनन्ताणुकस्कन्धपर्यन्ताः। ते हि कुतश्चिद्दव्याद्लन्ति वियुज्यन्ते, किञ्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः। ते च 1.1 आनुपूर्वी। तेऽस्तिकायाश्चेति समासः। अद्धाशब्दः कालवचन:, समय: सङ्केतादिवाचकोऽप्यस्ति ततो विशेष्यतेऽद्धारूप: समयोऽद्धा सूत्रम् समयः / वक्ष्यमाणपट्टसाटिकादिपाटनदृष्टान्तसिद्धःसर्वसूक्ष्मः पूर्वापरकोटिविप्रमुक्तो वर्तमान एकः कालांश इत्यर्थः / अत 1.1.3.3 व्य 0 एवात्रास्तिकायत्वाभावः, बहुप्रदेशत्व एव तद्भावाद् / अत्र त्वतीतानागतयोर्विनष्टानुत्पन्नत्वेन वर्तमानस्यैकस्यैव कालप्रदेशस्य द्रव्यानुपूर्व्या सद्भावात् / नन्वेवमावलिकादिकालाभावः, समयबहुत्व एव तदुपपत्तेरिति चेद्, भवतु तर्हि को निवारयिता?, समयावलिय समपावालय- सङ्गह०औ० मुहत्ता दिवसमहोरत्तपक्खमासा य (अनुयोगद्वारे सू० 365, आवश्यक नि० 663) इत्याद्यागमविरोध इति चेन्नैवम्, अभिप्रायापरि-3 द्रव्यानु० i. पूर्वानुपूर्वी, ज्ञानाद्व्यवहारनयमतेनैव तत्र तत्सत्त्वाभ्युपगमादत्र तु निश्चयनयमतेन तदसत्त्वप्रतिपादनान्न हि पुद्गलस्कन्धे परमाणुसङ्घात . पश्चानुपूर्वी इवावलिकादिषु समयसङ्गातः कश्चिदवस्थितः समस्तीति तदसत्त्वमसौ प्रतिपद्यत इत्यलं चर्चयेति / iii.अनानुपूर्वी ___ अत्र च जीवपुद्गलानां गत्यन्यथाऽनुपपत्तेधर्मास्तिकायस्य तेषामेव स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायस्य सत्त्वं प्रतिपत्तव्यम् / न च वक्तव्यं तद्गतिस्थिती च भविष्यतो धर्माधर्मास्तिकायौ च न भविष्यत इति प्रतिबन्धाभावादनेकान्तिकतेति, तावन्तरेणापि तद्भवनेऽलोकेऽपि तत्प्रसङ्गात् / यदि त्वलोकेऽपि तद्गतिस्थिती स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य // 120 // जीवपुद्गलानां तत्र प्रवेशादेकद्विवादिजीवपुद्गलयुक्तः सर्वथा तच्छून्यो वा कदाचिल्लोकः स्यान्न चैतद्दष्टमिष्टं वेत्याद्यन्यदपि। 0 शि। (c) समय आवलिका मुहूर्तो दिवसोऽहोरात्र: पक्षो मासश्च / 0 द्वित्र्यादि... / त्रिभेदा:तरूपरूप