________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 113 // [1] उपक्रमः / शा० उपक्रमः। |1.1 आनुपूर्वी। नाप्यनौपनिधिकी द्रव्यानुपूर्वी प्राग्निरूपितशब्दार्था पञ्चभिरर्थपदप्ररूपणतादिभिः प्रकारैर्विचार्यमाणत्वात्पञ्चविधा पञ्चप्रकारा प्रज्ञप्ता। तदेव दर्शयति तंजहेत्यादि / / 115 / / से किं तं संगहस्स अट्ठपयपरूवणया? 2 तिपएसिया आणुपुव्वी, चउप्पएसिया आणुपुव्वी, जाव दसपएसिया आणुपुव्वी, संखिज्जपएसिया आणुपुव्वी असंखिज्जपएसिया आणुपुव्वी अणंतपदेसिया आणुपुव्वी परमाणुपोग्गला अणाणुपुव्वी, दुपएसिया अवत्तव्वए, से तं संगहस्स अट्ठपयपरूवणया ॥सूत्रम् 116 / / ( / / 91 // ) अत्र व्याख्या पूर्ववदेव यावत्तिपएसिया आणुपुव्वीत्यादि / इह पूर्वमेकस्त्रिप्रदेशिक आनुपूर्व्यनेके त्रिप्रदेशिका आनुपूर्व्य इत्याधुक्तमत्र तु सङ्गहस्य सामान्यवादित्वात्सर्वेऽपि त्रिप्रदेशिका एकैवानुपूर्वी, इमांचात्र युक्तिमयमभिधत्ते / त्रिप्रदेशिका: स्कन्धास्त्रिप्रदेशिकत्वसामान्याव्यतिरेकिणोऽव्यतिरेकिणो वा? यद्याद्यः पक्षस्तर्हि ते त्रिप्रदेशिका एव न भवन्ति, तत्सामान्यव्यतिरिक्तत्वाविप्रदेशिकादिवदिति / अथ चरम: पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरेकात्तत्स्वरूपवत्, सामान्यं चैकस्वरूपमेवेति सर्वेऽपि त्रिप्रदेशिका एकैवानुपूर्वी, एवं चतुष्प्रदेशिकत्वसामान्याव्यतिरेकात्सर्वेऽपि चतुष्प्रदेशिका एकैवानुपूर्वी, एवंयावदनन्तप्रदेशिकत्वसामान्याव्यतिरेकात्सर्वेऽप्यनन्तप्रदेशिका एकैवानुपूर्वीत्यविशुद्धसङ्ग्रहनयमतम्। विशुद्धसङ्ग्रहनयमतेन तु सर्वेषां त्रिप्रदेशिकादीनामनन्ताणुकपर्यन्तानांस्कन्धानामानुपूर्वीत्वसामान्याव्यतिरेकाव्यतिरेके चानुपूर्वीत्वाभावप्रसङ्गासर्वाऽप्येकैवानुपूर्वीति / एवमनानुपूर्वीत्वसामान्याव्यतिरेकात्सर्वेऽपि परमाणुपुद्गला एकैवानानुपूर्वी, तथावक्तव्यत्वसामान्याव्यतिरेकात्सर्वेऽपि द्विप्रदेशिकस्कन्धा एकमेवावक्तव्यकमिति / सामान्यवादित्वेन सर्वत्र बहुवचनाभावः। से तमित्यादि ®ले। (c) 'स्कन्धाः त्रिपदेशिकाः' इत्यधिकं वर्तते / सूत्रम् 116 1.1.3.3 व्य 0 द्रव्यानुपूर्ध्या १.१.३.३.२आ सङ्गह०अनौ० द्रव्यानु० १.१.३.३.२आ 1 अर्थपदप्ररूपणता। // 113 //