________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 100 // नै० व्य० भवन्तीति पञ्च पृच्छास्थानानि / अत्र निर्वचनसूत्रस्येयं भावना, इहानुपूर्वीद्रव्याणि त्र्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यव [1] उपक्रमः। सानान्युक्तानि, तत्र च सामान्यत एकं द्रव्यमाश्रित्य तथाविधपरिणामवैचित्र्यात्किञ्चिल्लोकस्यैकस्मिन्सङ्ख्याततमे भागेभवति, शा० एकं तत्सङ्ख्यातभागमवगाह्य तिष्ठतीत्यर्थः। अन्यत्तु तदसङ्ख्येयभागमवगाहतेऽपरंतु बहँस्तत्सङ्घयेयान्भागानवगाहते, अन्यत्तु 1.1 आनुपूर्वी। बहूँस्तदसङ्ख्येयभागानवगाह्य वर्तते। सव्वलोए वा होज्जत्ति / इहानन्तानन्तपरमाणुप्रचयनिष्पन्नं प्रज्ञापनादिप्रसिद्धाचित्तमहा- सूत्रम् 108 1.1.3.3 व्य स्कन्ध-लक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहिप्रतिपत्तव्यमिति / कथं पुनरयमचित्तमहास्कन्धः सकललोकावगाही द्रव्यानुपूर्व्या स्याद्? उच्यते, समुद्धातवर्तिकेवलिवत्, तथाहि, लोकमध्यव्यवस्थितोऽसौप्रथमसमये तिर्यगसङ्ख्यातयोजनविस्तरंसङ्ख्यात अ. अनौ० योजनविस्तरं वा, ऊर्ध्वाधस्तु चतुर्दशरज्वायतं विश्रसापरिणामेन वृत्तं दण्डं करोति / द्वितीये कपाटम्, तृतीये मन्थानम्, चतुर्थे लोकव्याप्तिं प्रतिपद्यते, पञ्चमेऽन्तराणि संहरति, षष्ठे मन्थानम्, सप्तमे कपाटम्, अष्टमे तु समये दण्डं संहृत्य खण्डशो भिद्यत इत्येके, अन्येत्वन्यथापिव्याचक्षते, तत्तु विशेषावश्यकादवसेयमिति / वाशब्दाः(ब्दः) समुच्चये, एवं यथासम्भवमन्यत्रापि / णाणादव्वाइं पडुच्चेत्यादि। नानाद्रव्याण्यानुपूर्वीपरिणामवन्ति प्रतीत्य प्रकृत्य वाधिकृत्येत्यर्थः नियमान्नियमेन सर्वलोके क्षेत्रद्वारम्। भवन्ति। न सङ्खयेयादिभागेषु, यतः स लोकाकाशस्य प्रदेशोऽपि नास्ति यत्र सूक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न सन्तीति / अनानुपूर्व्यवक्तव्यकद्रव्येषु त्वेकं द्रव्यमाश्रित्य लोकस्यासङ्खयेयभाग एव वृत्तिः,नसङ्खयेयभागादिषु / यतोऽनानुपूर्वी तावत्परमाणुरुच्यते, सचैकाकाशप्रदेशावगाढ एव भवत्यवक्तव्यकंतु व्यणुकस्कन्धः स चैकप्रदेशावगाढो द्विपदेशावगाढो वा स्यादिति यथोक्तभागवृत्तितैवेति। नानाद्रव्यभावना पूर्ववदिति (3) // 108 // साम्प्रतं स्पर्शनाद्वारमुच्यते® य वर्तते', इत्यस्ति / तिष्ठती'ति / 0 समये', इति न वर्तते / 7 सर्वलोकाकाशस्य स' इति पाठो वर्तते / 7 इत्युक्तं क्षेत्रद्वारम्' इत्यधिकम् / द्रव्यानु०॥ १.१.३.३.२अ.५ अनुगमः १.१.३.३.२अ.५.३ // 100 //