________________ शा० उपक्रमः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 97 // 8 सूत्रम् 105 |1.1.3.3 व्य० नै० व्य० पूर्वीद्रव्यलक्षणायां स्वजातावेववर्तन्ते, नस्वजात्यतिक्रमेणेत्यर्थः / इदमुक्तं भवति, सम्यगविरोधेनावतरणं वर्तनंसमवतारः, [[1] उपक्रमः। अविरोधवर्तिता प्रोच्यते, सा च स्वजातिवृत्तावेव स्यात्, परजातिवृत्तेविरुद्धत्वात्ततो नानादेशादिवृत्तीन्यपि सर्वाण्यानुपूर्वीद्रव्याण्यानुपूर्वीद्रव्येष्वेव वर्तन्त इति स्थितम् / एवमनानुपूर्व्यादीनामपिस्वस्थानावतारो भावनीयः। से तमित्यादि निगमनम् / 1.1 आनुपूर्वी। // 104 / उक्तः समवतारः, अथानुगमं बिभणिषुरुपक्रमते, से किं तं अणुगमे? 2 णवविहे पूण्णत्ते, तंजहा- संतपयपरूवणया 1 दव्वपमाणं च 2 खेत्त 3 फुसणा य 4 / कालो य 5 अंतरं द्रव्यानुपूर्व्या 6 भाग 7 भाव 8 अप्पाबहुंचेव॥८॥सूत्रम् 105 // ( / / 80 // ) से किं तमित्यादि। अत्रोत्तरम्, अणुगमे नवविहे, इत्यादि। तत्र सूत्रार्थस्यानुकूलमनुरूपं वा गमनं व्याख्यानमनुगमः। २अ. अनौ० अथवा सूत्रपठनादनु, पश्चाद्, गमनं व्याख्यानमनुगमः। यदिवानुसूत्रमर्थो गम्यते ज्ञायतेऽनेनेत्यनुगमो व्याख्यानमेव, इत्याद्यन्यदपि वस्त्वविरोधेन स्वधिया वाच्यमिति / स च नवविधो नवप्रकारो भवति, तदेव नवविधत्वं दर्शयति / तद्यथे- अनुगमः सत्पदादि त्युपदर्शनार्थः / संतपयगाहा / सदर्थविषयं पदंसत्पदम्, तस्य प्ररूपणं प्रज्ञापनं सत्पदप्ररूपणम्, तस्य भावः सत्पदप्ररूपणता, नवद्वाराणि। सा प्रथमं कर्तव्या। इदमुक्तं भवति, इह स्तम्भकुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते, खरशृङ्गव्योमकुसुमादीनि त्वसदर्थविषयाणि / तत्रानुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाण्याहोश्वित्खरविषाणादिपदवदसदर्थगोचराणीत्येतत्प्रथमं पर्यालोचयितव्यम्। 1 तथानुपूर्व्यादिपदाभिधेय द्रव्याणां प्रमाणं सङ्ख्यास्वरूपं प्ररूपणीयम् 2 / चः समुच्चये, एवमन्यत्रापि / तथा तेषामेव क्षेत्रं तदाधारस्वरूपं प्ररूपणीयम् / कियति क्षेत्रे तानि भवन्तीति चिन्तनीयमित्यर्थः 3, तथा // 97 // (c) वृत्तिता / 7 // 1 // 80 // 0 (स्वित्)इत्यधिकम् / द्रव्यानु०॥ १.१.३.३.२अ.५ EGA60806063683888