________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 89 // नै० व्य० स्कन्धोऽवक्तव्यकमित्याख्यायते / बहवस्त्रिपदेशिकादय: स्कन्धा आनुपूर्को बहवश्चैकाकिरमाणवोऽनानुपूर्को बहूनि च [1] उपक्रमः। व्यणुकस्कन्धद्रव्याण्यवक्तव्यकानि / आनुपूर्व्या प्रक्रान्तायामनानुपूर्व्यवक्तव्यकयोः प्ररूपणमसङ्गतमिति चेन्न / तत्प्रति- शा० उपक्रमः। पक्षत्वात्तयोरपि प्ररूपणीयत्वात्प्रतिपक्षपरिज्ञाने च प्रस्तुतवस्तुनः सुखावसेयत्वादिति भावार्थः / इहानुपूर्व्यनुपरिपाटिरिति |1.1 आनुपूर्वी। पूर्वमुक्तम्, सा च यत्रैवादिमध्यान्तलक्षण: सम्पूर्णोगणनानुक्रमोऽस्ति तत्रैवोपपद्यते, नान्यत्र, एतच्चत्रिप्रदेशिकादिस्कन्धेष्वेव। सूत्रम् 19 1.1.3.3 व्य 0 तथाहि यस्मात्परमस्ति न पूर्वं स आदिः / यस्मात्पूर्वमस्ति न परंसोऽन्तः / तयोश्चान्तरं मध्यमुच्यते / अयं संपूर्णो गणनानुक्रम-8 द्रव्यानुपूर्ध्या स्त्रिप्रदेशादिस्कन्ध एव, न परमाणौ, तस्यैकद्रव्यत्वेनादिमध्यान्तव्यवहाराभावादत एवायमनानुपूर्वीत्वेनोक्तः, नापि व्यणुक २अ. अनौ० स्कन्धे, तत्रापि मध्याभावेन सम्पूर्णगणनानुक्रमाभावाद् / अत्राह ननु पूर्वस्य, अनु, पश्चादनुपूर्वम्, तस्य भाव आनुपूर्वीति / पूर्वं व्याख्यातमेतच्च व्यणुकस्कन्धेऽपिघटत एव, परमाणुद्वयस्यापि परस्परापेक्षया पूर्वपश्चाद्भावस्य विद्यमानत्वात्ततः सम्पूर्णगणनानुक्रमाभावेऽपिकस्मादयमप्यानुपूर्वी न भवति?। नैतदेवम्, यतो यथा मर्यादिके क्वचित्पदार्थे मध्येऽवधौ व्यवस्थापिते लोके पूर्वादिविभाग: प्रसिद्धस्तथा यद्यत्रापि स्यात्तदा स्यादप्येवम्, न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽसाङ्कर्येण पूर्वपश्चाद्धावस्यासिद्धत्वात् / यद्येवं परमाणुवढ्यणुकस्कन्धोऽप्यनानुपूर्वीत्वेन कस्मान्नोच्यते?, सत्यम्, किन्तु परस्परापेक्षया पूर्वपश्चाद्भावमात्रस्य सद्भावादेवमप्यभिधातुमशक्योऽसौ तस्मादानुपूर्व्यनानुपूर्वीप्रकाराभ्यां वक्तुमशक्यत्वादवक्तव्यकमेव व्यणुकस्कन्धः। तस्माद्व्यवस्थितमिदम्, आदिमध्यान्तभावेनावधिभूतंमध्यवर्तिनमपेक्ष्यासाङ्कर्येण मुख्यस्य पूर्वपश्चाद्धावस्य सद्भावात्त्रिप्रदेशादिस्कन्ध एवानुपूर्वी, परमाणुस्तूक्तयुक्त्यानानुपूर्वी, व्यणुकोऽवक्तव्यकमित्येवं संज्ञासंज्ञि0 अयं च संपूर्णो... / (r) अवक्तव्यक इत्येवं / द्रव्यानु०॥ १.१.३.३.२अ.१ अर्थपदप्ररूपणता। // 89 //