________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 87 // द्रव्यास्तिकः / पर्याया एव वस्तुतः सन्ति न द्रव्यमित्यभ्युपगमपरः पर्यायास्तिकः / तत्राद्यास्त्रयो द्रव्यास्तिकाः, शेषास्तु पर्यायास्तिकाः। पुनद्रव्यास्तिकोऽपि सामान्यतो द्विविधोऽविशुद्धोविशुद्धश्च, तत्र नैगमव्यवहाररूपोऽविशुद्धः, सङ्ग्रहरूपस्तु विशुद्धः / कथम्?, यतो नैगमव्यवहारावनन्तपरमाण्वनन्तव्यणुकाधनेकव्यक्त्यात्मकं कृष्णाधनेकगुणाधारं त्रिकालविषयं चाऽविशुद्धं द्रव्यमिच्छतः, सङ्ग्रहश्च परमाण्वादिकं परमाण्वादिसाम्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्यमिच्छति, एतच्च किलानेकताद्यभ्युपगमकलङ्केनाकलङ्कितत्वाच्छुद्धम्, ततःशुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः / अत्र च द्रव्यानुपूर्येव विचारयितुं प्रक्रान्तातः शुद्धाशुद्धस्वरूपं द्रव्यास्तिकमतेनैवासौ दर्शयिष्यते न पर्यायास्तिकमतेन, पर्यायविचारस्याप्रक्रान्तत्वादित्यलं विस्तरेण // 97 // तत्र नैगमव्यवहारसंमतामिमां दर्शयितुमाह, से किंतंणेगमववहाराणं अणोवणिहिया दव्वाणुपुव्वी? २पंचविहा पण्णत्ता, तंजहा- अट्ठपयपरूवणया १भंगसमुक्तित्तणया 2 भंगोवदंसणया 3 समोयारे 4 अणुगमे 5 // सूत्रम् 18 // ( // 73 // ) से किं तमित्यादि / अत्र निर्वचनम्, नेगमववहाराणं अणोवणिहिआ दव्वाणुपुष्वी पंचविहे, त्यादि। अर्थपदप्ररूपणतादिभिः पञ्चभिः प्रकारैर्विचार्यमाणत्वात्पञ्चविधा पञ्चप्रकारा प्रज्ञप्ता। तद्यथा, अर्थपदप्ररूपणता, भङ्गसमुत्कीर्तनता, भङ्गोपदर्शनता, समवतारः, अनुगमः / एभिः पञ्चभिः प्रकारै गमव्यवहारनयमतेनानौपनिधिक्या द्रव्यानुपूर्व्याः स्वरूपं निरूप्यत इतीह तात्पर्यम् / तत्रार्यत इत्यर्थः, त्र्यणुकस्कन्धादिस्तधुक्तं तद्विषयं वा पदमानुपूर्व्यादिकम्, तस्य प्ररूपणं कथनम्, तद्भावोऽर्थपदप्ररूपणता, 'इयमानुपूर्व्यादिका संज्ञाऽयं च तदभिधेयस्त्र्यणुकादिरर्थः संज्ञी'त्येवं संज्ञासंज्ञिसम्बन्धकथनमात्रं 0वाऽ। [1] उपक्रमः। शा० उपक्रमः। 1.1 आनुपूर्वी। सूत्रम् 98 1.1.3.3 व्य० द्रव्यानुपूर्ध्या नै० व्य० १.१.३.३.२अ अनौ० द्रव्यानुपूर्व्याः पञ्चभेदाः। // 87 //