SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 86 // स उपनिधिरित्यर्थः / उपनिधिःप्रयोजनं यस्या आनुपूर्व्या:सौपनिधिकीति / प्रयोजनार्थ इकण्प्रत्ययः।सामायिकाध्ययनादि 1] उपक्रमः। वस्तूनां वक्ष्यमाणपूर्वानुपूर्व्यादिप्रस्तारप्रयोजना, आनुपूर्वी, औपनिधिकीत्युच्यत इति तात्पर्यम् / अनुपनिधिर्वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेणाविरचनं प्रयोजनमस्या इत्यनौपनिधिकी। यस्यां वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण विरचनान क्रियते सात्र्यादि |1.1 आनुपूर्वी। परमाणुनिष्पन्नस्कन्धविषयानुपूर्वी, अनौपनिधिकीत्युच्यत इति भावः। आह नन्वानुपूर्वी परिपाटिरुच्यते, भवताच त्र्यणु-सूत्रम् 94-97 कादिकोऽनन्ताणुकावसान एकैकः स्कन्धोऽनौपनिधिक्यानुपूर्वीत्वेनाभिप्रेतः, न च स्कन्धगतत्र्यादिपरमाणूनां नियता द्रव्यानुपूर्ध्या काचित्परिपाटिरस्ति, विशिष्टैकपरिणामपरिणतत्वात्तेषाम्, तत्कथमिहानुपूर्वीत्वम्?,सत्यम्, किन्तु त्र्यादिपरमाणूनामादि ३व्यतिरिक्तस्य १.औपनिधिकी मध्यावसानभावेन नियतपरिपाट्या व्यवस्थापनयोग्यतास्तीति योग्यतामाश्रित्यात्राप्यानुपूर्वीत्वंन विरुध्यते॥९५॥ तत्थण.अनौपनिमित्यादि / तत्र यासावौपनिधिकी द्रव्यानुपूर्वी सा स्थाप्या, सांन्यासिकी, तिष्ठतु तावदल्पतरवक्तव्यत्वेन, तस्या उपरि वक्ष्य धिकी। माणत्वादिति भावः / अनौपनिधिकी तु पश्चान्निर्दिष्टापि बहुतरवक्तव्यत्वेन प्रथमं व्याख्यायते, बहुतरवक्तव्ये हि वस्तुनि / प्रथममुच्यमानेऽल्पतरवक्तव्यवस्तुगतः कश्चिदर्थस्तन्मध्येऽप्युक्त एव लभ्यत इति गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनौपनिधिकीस्वरूपं विवरीषुराह // 96 // तत्थ णमित्यादि / तत्र यासावनौपनिधिकी द्रव्यानुपूर्वी सा नयवक्तव्यताश्रयणाव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता / तद्यथा, नैगमव्यवहारयोः सङ्ग्रहस्य च, नैगमव्यवहारसंमता सङ्ग्रहसंमता चेत्यर्थः / अयमत्र भावार्थः / इहौघतः सप्त नया भवन्ति नैगमादयः, उक्तं च, नैगम सङ्ग्रह व्यवहार ऋजुसूत्र शब्द समभिरूढे वंभूता नयाः (तत्त्वार्थ 1/33) एते च द्रव्यास्तिकपर्यायास्तिकलक्षणे नयद्वयेऽन्तर्भाव्यन्ते। द्रव्यमेव परमार्थतोऽस्ति न पर्याया इत्यभ्युपगमपरो 7 वक्तव्यत्वे। ॐ क्याः। // 6 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy