________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 83 // | [1] उपक्रमः। शा० उपक्रमः। सूत्रम् 92 आनुपूर्व्यादि षडद्वाराणि। वक्तव्यं भवति, गुरुभावोपक्रमस्त्वप्रस्तुतो व्याख्यानानुपकारित्वात्, तदेतदयुक्तम्, गुरुभावोपक्रमस्यैव मुख्यव्याख्याङ्गत्वादुक्तं च, गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि। तस्माद्गुराधनपरेण हितकाटिणा भाव्यम्॥१॥ (प्रशम०६१) अन्यच्च-जुत्तं गुरूमयगहणं नाऊण तयं जहट्ठियं तत्तो। जह होइ सुप्पसन्नं तह जइयव्वं गुणत्थीहिं॥१॥ गुरुचित्तायत्ताई वक्खाणंगाइ जेण सव्वाइं। तेण जह सुप्पसन्नं होइ तयं तं तहा कुज्जा // 2 // आगारिंगियकुलसं जइ सेयं वायसं वए पुज्जा / तह वि य सिं न विकूडे विरहम्मि य कारणं पुच्छे॥३॥ निवपुच्छिएण भणिओ गुरूणा गंगा कओमुही वहई?। संपाइयवंसीसो जह तह सव्वत्थ कायव्वं॥४॥(विशेषावश्यक भा०९३५, 31, 33, 34) इत्यादि। भवत्वेवंतर्हि भावोपक्रमस्य सार्थकत्वम्, शेषास्तु नामस्थापनाद्रव्याधुपक्रमा अनर्थका एव / नैतदेवम्, यतो गुरोस्तथाविधप्रयोजनोत्पत्तौ तच्चित्तप्रसादनार्थमेवाशनपानवस्त्रपात्रौषधादिद्रव्यं व्याख्यास्थानादिक्षेत्रं प्रवज्यालग्नादिकालमुपक्रॉमतो विनेयस्य द्रव्यक्षेत्रकालोपक्रमा अपिसार्थका एव / नामस्थापनोपक्रमौतु प्रकृतानुपयोगित्वेऽप्युपक्रमसाम्यादत्रोक्ता, अथवा सर्वेऽप्यमी प्रकृतानुपयोगिनोऽप्यन्यत्रोपयोक्ष्यन्त उपक्रमसाम्याच्चात्रोक्ता इत्यदोषः॥ 87-91 // तदेवं लौकिकोपक्रमप्रकारेणोक्त उपक्रमः।साम्प्रतं तु तमेव शास्त्रीयोपक्रमलक्षणेन प्रकारान्तरेणाभिधित्सुराह अहवा उवक्कमे छव्विहे पण्णत्ते, तंजहा-आणुपुव्वी 1 नाम र पमाणं 3 वत्तव्वया 4 अत्थाहिगारे 5 समोयारे ६॥सूत्रम् 92 // ( // 70 // ) 7 युक्तं गुरुमनोग्रहणं ज्ञात्वा तकत् यथास्थितं ततः। यथा भवति सुप्रसन्नं तथा यतितव्यं गुणार्थिभिः॥ 1 // गुरुचित्तायत्तानि व्याख्यानाङ्गानि येन सर्वाणि / तेन यथा सुप्रसन्नं भवति तकत्तत्तथा कुर्यात् / / 2 // आकारेङ्गितकुशलं यदि श्वेतं वायसं वदेयुः पूज्याः। नैव तेषां वचनं कूटयेत् विरहे च कारणं पृच्छेत् / / 3 / / नृपपृष्टेन भणितो गुरुणा गङ्गा कुतोमुखी वहति? / सम्पादितवान् शिष्यो यथा तथा सर्वत्र कर्तव्यम् / / 4 // 0 से। 0 क्र / // 83 //