________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 81 // प्रायस्योपक्रमणं यथावत्परिज्ञानं भावोपक्रमः / स च द्विविधः प्रशस्तोऽप्रशस्तश्चेति / तत्राप्रशस्ताभिधित्सयाह- से किं त [[1] उपक्रमः / मित्यादि / अत्र निर्वचनम्, अप्पसत्थे डोडिणिगणिआअमच्चाईणंति / इदमिह तात्पर्यम्, ब्राह्मण्या वेश्ययामात्येन च यत्परकीय लौकिकोपक्रमः। भावस्य यथावत्परिज्ञानलक्षणमुपक्रमणं कृतं सोऽप्रशस्तोभावोपक्रमः,संसारफलत्वात् / तत्र कथं ब्राह्मण्यादिभिः परभावोप- सूत्रम् 87-91 क्रमणमकारीति?। अत्रोच्यते, एकस्या ब्राह्मण्यास्तिस्रः पुत्रिका: तासां च परिणयनानन्तरं तथा करोमि यथैताः सुखिता भावोपक्रमः। भवन्तीति विचिन्त्य माता ज्येष्ठदुहितरं प्रत्यवोचत्, यदुत त्वया वासभवनसमागमे स्वभर्ता कश्चिदपराधमुद्भाव्य मूर्ध्नि नोआगमतो पादप्रहारेण हन्तव्यः, हतश्च यदनुतिष्ठति तन्ममाख्येयम् / कृतं च तया तथैव / सोऽप्यतिस्नेहतरलितमना, 'अयि प्रियतमे भावोपक्रमस्य |प्रशस्ता प्रशस्तौ पीडितस्ते सुकुमालश्चरणो भविष्यती'त्यभिधानपूर्वकं तस्याश्चरणोपमर्दनं चकार, अमुंच व्यतिकरं सा मात्रे निवेदितवती, द्वौ भेदौ। साप्युपक्रान्तजामातृभावा हृष्टा दुहितरं प्रत्यवादीत्, पुत्रिके! यद्रोचते तत्त्वदीयगृहे कुरु त्वम्, न तवावचनकरो भर्ता भविष्यतीति / द्वितीयापि तथैव शिक्षिता, तयापि च तथैव स्वभर्ता शिरसि प्रहतः, केवलमसौ 'नैतच्छिष्टानां युज्यत' इत्यादि किञ्चित् क्षणमेकं झषित्वोपरतः / तस्मिँश्च तया मातुर्निवदिते मात्रा प्रोक्तम्- वत्से! त्वमपि यथेष्टं त्वद्गृहे विजृम्भस्व, केवलं त्वद्भर्ता क्षणमेकं झषित्वा स्थास्यति / एवं च तृतीययापि प्रहतः, केवलममुना समुच्छलदतुच्छकोपेनोक्तम्, नमकुलीना त्वम् ?, यैवं शिष्टजनानुचितं विचेष्टस' इत्याद्यभिधाय गाढं कुट्टयित्वा गृहान्निष्काशिता / तया चागत्य सर्वं मात्रे निवेदितम् / तयापि विज्ञातजामातृभावया गत्वा तत्समीपे वत्स! कुलस्थितिरस्माकमियं यदुत प्रथमसमागमे वध्वा वरस्येत्थंकर्तव्यमि त्यादि किञ्चिदभिधाय कथमप्यनुनयितोऽसौ, दुहिता च प्रोक्ता, वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्ततया / (c) 'कोपं कृत्वा निवर्तितः, अमुं च व्यतिकरं सा मात्रे निवेदितवती, हृष्टा पुत्री प्रत्यवादीत्- पुत्रिके!' इति वर्तते। 0 रू। 0 कुलीना' इति वर्तते / // 1 //