________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 74 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 1 नियुक्तिः 70-72 प्रत्युत्पन्नविनाशद्वारम्। एवं तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्य व्याख्यातं प्रत्युत्पन्नविनाशद्वारम्, अधुना द्रव्यानुयोगमधिकृत्याह-यदिवा वातूलिको नास्तिको वदेत्, किं? - सर्वेऽपि घटपटादयः णत्थि त्ति प्राकृतशैल्या न सन्ति भावाः पदार्थाः किं पुनर्जीवः?, सुतरां नास्तीत्यभिप्रायः, स वक्तव्यः सोऽभिधातव्यः, किमित्याह नि०-जंभणसि नत्थि भावा वयणमिणं अत्थि नत्थि? जइ अत्थि। एव पइन्नाहाणी असओणु निसेहए कोणु! // 71 // यद्भणसि यद्ववीषिन सन्ति भावा न विद्यन्ते पदार्था इति, वचनमिदं भावप्रतिषेधकमस्ति नास्तीति विकल्पौ?, किं चातो?, यद्यस्ति एवं प्रतिज्ञाहानिः, प्रतिषेधवचनस्यापि भावत्वात्, तस्य च सत्त्वादिति भावार्थः, द्वितीयं विकल्पमधिकृत्याह- असओ Pणु त्ति अथासन्निषेधते को नु?, निषेधवचनस्यैवासत्त्वादित्ययमभिप्राय इतिगाथात्रयार्थः॥ यदुक्तं-'किं पुनर्जीवः' इत्यत्रापि प्रत्युत्पन्नविनाशमधिकृत्याह नि०- णो य विवक्खापुव्वोसद्दोऽजीवुब्भवोत्ति न यसावि / जमजीवस्स उसिद्धो पडिसेहधणीओ तो जीवो // 72 // 8 चशब्दस्यैवकारार्थत्वेनावधारणार्थत्वात् न च नैव विवक्षापूर्वो विवक्षाकारण इच्छाहेतुरित्यर्थः, शब्दो ध्वनिः अजीवोद्भवः, अजीवप्रभव इत्यर्थः, विवक्षापूर्वकश्च जीवनिषेधकः शब्द इति, मा भूद्विवक्षाया एव जीवधर्मत्वासिद्धिरित्यत आह-नच नैव सापि विवक्षा यद् यस्मात् कारणाद् अजीवस्य तु अजीवस्यैव, घटादिष्वदर्शनात्, किन्तु मनस्त्वपरिणता(त्य)न्विततत्तव्यसाचिव्यतो जीवस्यैव, यतश्चैवमतः सिद्धः प्रतिष्ठितः प्रतिषेधध्वनेः नास्ति जीव इति प्रतिषेधशब्दादेवेत्यर्थः, ततः तस्मात् जीव आत्मेति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः।। व्याख्यातं प्रत्युत्पन्नविनाशद्वारम्, तदन्वाख्यानाचोदाहरणमिति मूलद्वारम्, अधुना तद्देशद्वारावयवार्थमभिधित्सुराह // 74 //