________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 69 // नि०- एवं तु इहं आया पच्चक्खं अणुवलब्भमाणोऽवि।सुहदुक्खमाइएहिं गिज्झइ हेऊहिँ अत्थित्ति // 63 // एवमेव यथा धातुवादादिभिर्द्रव्यादि इह अस्मिल्लोके आत्मा जीवः प्रत्यक्ष मिति तृतीयार्थे द्वितीया प्रत्यक्षेण अनुपलभ्यमानोऽपि अदृश्यमानोऽपि सुखदुःखादिभिः आदिशब्दात् संसारपरिग्रहो गृह्यते हेतुभिः युक्तिभिः अस्ति विद्यत इति-एवं गृह्यते, तथाहिसुखदुःखानां धर्मत्वाद्धर्मस्य चावश्यमनुरूपेण धर्मिणा भवितव्यम्, न च भूतसमुदायमात्र एव देहोऽस्यानुरूपो धर्मी, तस्याचेतनत्वात् सुखादीनां च चेतनत्वादिति, अत्र बहु वक्तव्यमिति गाथार्थः। नि०- जह वऽस्साओ हत्थिंगामा नगरंतु पाउसा सरयं / ओदइयाउ उवसमं संकंती देवदत्तस्स // 64 // यथा वे ति प्रकारान्तरदर्शने अश्वात् घोटकात् हस्तिनं गजं ग्रामात् नगरं तु प्रावृषः शरदं प्रावृट्कालाच्छरत्कालमित्यर्थः, औदयिकाद् भावाद् उपशम मित्यौपशमिकं संक्रान्तिः संक्रमणं संक्रान्तिः कस्य?- देवदत्तस्य, प्रत्यक्षेणेति शेषः॥ नि०- एवं सउ जीवस्सविदव्वाईसंकमं पडुच्चा उ। अत्थित्तं साहिज्जइ पच्चक्खेणं परोक्खंपि॥६५॥ एवं यथा देवदत्तस्य तथा, किं?- सतो विद्यमानस्य जीवस्यापि द्रव्यादिषु संक्रमः, आदिशब्दात् क्षेत्रकालभावपरिग्रहः, तं प्रतीत्य आश्रित्य अस्तित्वं विद्यमानत्वं साध्यते अवस्थाप्यते / आह सतोऽस्तित्वसाधनमयुक्तम्, न, अव्युत्पन्नविप्रतिपन्नविषयत्वात् साधनस्य, प्रत्यक्षेण अश्वादिसंक्रमेण, सर्वथा साक्षात्परिच्छित्तिमङ्गीकृत्य परोक्षमपि अप्रत्यक्षमपि, अवग्रहादिस्वसंवेदनतो लेशतस्तु प्रत्यक्षमेवैतत्, एतदुक्तं भवति-यथा अश्वादिसंक्रान्तिन देवदत्ताख्यं धर्मिणमतिरिच्य वर्त्तते, एवमियमप्यौदारिकाद्वैक्रिये तिर्यग्लोकादूर्ध्वलोके परिमितवर्षायुष्कपर्यायादपरिमितवर्षायुष्कपर्याये चारित्रभावादविरतभावे चसंक्रान्तिर्न जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृद्धा व्याचक्षते / अन्ये तु द्वितीयगाथापश्चार्द्ध पाठान्तरतोऽन्यथा व्याचक्षते प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 1 नियुक्तिः 63-65 द्रव्यानुयोगमधिकृत्योपायदर्शनंआत्मास्तित्वाभिधानं च।