________________ श्रीदशवैकालिक श्रीहारिक // 65 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 1 नियुक्तिः 62 कालोपायोभावोपायश्चअभयकुमारस्यचौरभावविज्ञानोदाहरणश्च। नि०- एमेव चउविगप्पो होइ उवाओऽवि तत्थ दव्वंमि। धातुव्वाओ पढमो नंगलकुलिएहिँ खेत्तं तु // 61 // एवमेव यथा अपायः, किं?- चतुर्विकल्पः चतुर्भेदः भवत्युपायोऽपि, तद्यथा-द्रव्योपायः क्षेत्रोपायः कालोपायःभावोपायश्च, तत्र द्रव्य इति द्वारपरामर्शः द्रव्योपाये विचार्ये धातुर्वादः सुवर्णपातनोत्कर्षलक्षणो द्रव्योपायः प्रथम इति लौकिकः, लोकोत्तरे त्वध्वादौ पटलादिप्रयोगतः प्रासुकोदककरणम्, क्षेत्रोपायस्तु लाङ्गलादिना क्षेत्रोपक्रमणे भवति, अत एवाह- लाङ्गलकुलिकाभ्यां क्षेत्रं उपक्रम्यत इति गम्यते, ततश्च लाङ्गलकुलिके तदुपायो लौकिकः, लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रभावनम्,अन्ये तुयोनिप्राभृतप्रयोगतः काञ्चनपातनोत्कर्षलक्षणमेव सङ्घातप्रयोजनादौ द्रव्योपायं व्याचक्षते, विद्यादिभिश्च दुस्तराध्वतरणलक्षणं क्षेत्रोपायमिति। अत्र च प्रथमग्रहणपदार्थोऽतिरिच्यमान इवाभाति, पाठान्तरं वा धाउव्वाओ भणिओ'त्ति अत्र च कथञ्चिदविरोध एवेति गाथार्थः।। नि०- कालो अनालियाइहिं होइ भावंमि पंडिओ अभओ। चोरस्स कए नट्टिवड्डकुमारिंपरिकहेइ॥६२॥ कालश्च नालिकादिभिःज्ञायत इति शेषः, नालिका- घटिका आदिशब्दाच्छङ्क्वादिपरिग्रहः, ततश्च नालिकादयः कालोपायो लौकिकः, लोकोत्तरस्तु सूत्रपरावर्तनादिभिस्तथा भवति, भावे चेति द्वारपरामर्शत्वाद्भावोपाये विचार्ये निदर्शनम्, क इत्याह- पण्डितो विद्वान् अभयः अभयकुमारस्तथा चाह-चौरनिमित्तं नर्तक्यां(नाट्ये) वड्ड(वृद्ध) कुमारीम्, किं?, त्रिकालगोचरसूत्रप्रदर्शनार्थमाह- परिकथयति, ततश्च यथा तेनोपायतश्चौरभावो विज्ञातः एवं शिक्षकादीनां तेन तेन विधिनोपायत एव भावो ज्ञातव्य इति गाथार्थः।। नवरं भावोवाए उदाहरणं- रायगिहं णाम णयरं, तत्थ सेणिओ राया, सो भजाए भणिओ ®तक्रखरण्टितचीवरादि वि. प्र. / (c) भावोपाये उदाहरणं राजगृहं नाम नगरम्, तत्र श्रेणिको राजा, स भार्यया भणितः-- // 65 //