________________ श्रीदशवैकालिक वृत्तियुतम् // 64 // श्रीहारिक संसारमोक्षाणां तत्राहादानुभवरूपंक्षणं सुखम्, तापानुभवरूपंदुःखम्, तिर्यग्नरनारकामरभवसंसरणरूपः संसारः, अष्टप्रकार- प्रथममध्ययन कर्मबन्धवियोगो मोक्षः, तत्र कथं पुनस्तेषां वादिनांसुखाद्यभावः?, आत्मनोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वाद्, अन्यथा द्रुमपुष्पिका, सूत्रम् 1 त्वापरिणतेः सदैव नारकत्वादिभावाद्, अपरित्यक्ताप्रसन्नत्वे पूर्वरूपस्य च प्रसन्नत्वेनाभवनाद्, एवं शेषेष्वपि भावनीयमिति | नियुक्तिः गाथार्थः। ततश्चैवं 60-61 द्वितीयोपायनि०- सुहदुक्खसंपओगोन विजई निच्चवायपक्खंमि। एगंतुच्छेअंमि असुहदुक्खविगप्पणमजुत्तं // 60 // द्वारेचरणसुखदुःखसंप्रयोगः, सम्यक् संगतो वा प्रयोगः संप्रयोगः अकल्पित इत्यर्थः न विद्यते नास्ति न घटत इत्यर्थः, क्व?- करणानुयोगनित्यवादपक्षेनित्यवादाभ्युपगमे संप्रयोगोन विद्यते,कल्पितस्तु भवत्येव, यथाऽऽहुर्नित्यवादिनः- प्रकृत्युपधानतः पुरुषस्य सुखदुःखे / मधिकृत्य द्रव्यस्तः, स्फटिके रक्ततादिवद् बुद्धिप्रतिबिम्बाद्वाऽन्येइति, कल्पितत्वं चास्य आत्मनस्तत्त्वत एव तथापरिणतिमन्तरेण सुखाद्यभावाद् क्षेत्रोपायः। उपधानसन्निधावप्यन्धोपले रक्ततादिवत्, तदभ्युपगमे चाभ्युपगमक्षतिः, बुद्धिप्रतिबिम्बपक्षेऽप्यविचलितस्यात्मनः सदैवैकस्वभावत्वात् सदैवैकरूपप्रतिबिम्बापत्तेः, स्वभावभेदाभ्युपगमे चानित्यत्वप्रसङ्ग इति ।मा भूदनित्यैकान्तग्रह इत्यत आहएकान्तेन' सर्वथा उत्-प्राबल्येन छेदो- विनाशः एकान्तोच्छेदः-निरन्वयो नाश इत्यर्थः, अस्मिँश्च किं?-सुखदुःखयोर्विकल्पनं सुखदुःखविकल्पनं अयुक्तं अघटमानकम्, अयमत्र भावार्थ:- एकान्तोच्छेदेऽपि सुखाद्यनुभवितुस्तत्क्षण एव सर्वथोच्छेदादहेतुकत्वात्तदुत्तरक्षणस्योत्पत्तिरपि न युज्यते, कुतः पुनस्तद्विकल्पनमिति गाथार्थः ।उक्तोऽपायः, साम्प्रतमुपाय उच्यते- तत्रोपसामीप्येन(आयः) विवक्षितवस्तुनोऽविकललाभहेतुत्वाद्वस्तुनो लाभ एवोपायः- अभिलषितवस्त्ववाप्तये व्यापारविशेष इत्यर्थः, असावपि चतुर्विध एव, तथा चाह // 64 //