________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 56 // प्रस्तुमः- चरितं च कल्पितंचे(वे) त्यनेन विधिना द्विविधम्, पुनश्चतुर्विध-चतुष्प्रकारमेकैकम्, कथमत आह- उदाहरणं तद्देशः प्रथममध्ययनं तद्दोषश्चैव उपन्यास इति। तत्रोदाहरणशब्दार्थ उक्त एव, तस्यदेशस्तद्देशः, एवं तद्दोषः, उपन्यसनमुपन्यासः, सच तद्वस्त्वादिलक्षणो द्रुमपुष्पिका, सूत्रम् वक्ष्यमाण इति गाथार्थः॥ साम्प्रतमुदाहरणमभिधातुकाम आह नियुक्ति: 54 नि०- चउहा खलु आहरणं होइ अवाओ उवाय ठवणा य / तहय पडुप्पन्नविणासमेव पढमं चउविगप्पं // 54 // उदाहरणस्य चतुर्धा खलु उदाहरणं भवति, अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे भेदा भवन्ति, तद्यथा- अपायः उपायः स्थापना चल चतुर्भेदाः प्रतिभेदाश्च। तथा च प्रत्युत्पन्नविनाशमेवेति, स्वरूपमेषांप्रपञ्चेन भेदतो नियुक्तिकार एव वक्ष्यति, तथा चाह- प्रथमं अपायोदाहरणं चतुर्विकल्प नियुक्ति: 55 चतुर्भेदम् / तत्रापायश्चतुःप्रकारः, तद्यथा-द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्च इति गाथार्थः / तत्र द्रव्यादपायो द्रव्यापाये वणिग्भ्रातृद्रव्यापायः, अपाय:- अनिष्टप्राप्तिः द्रव्यमेव वा अपायो द्रव्यापायः, अपायहेतुत्वादित्यर्थः, एवं क्षेत्रादिष्वपि भावनीयम्। कथानकम्। साम्प्रतं द्रव्यापायप्रतिपादनायाह नि०- दव्वावाए दोन्नि उवाणिअगा भायरो धणनिमित्तं / वहपरिणएक्कमेक्वं दहमि मच्छेण निव्वेओ॥५५॥ द्रव्यापाये उदाहरणं द्वौ तु, तुशब्दादन्यानि च, वणिजौ भ्रातरौ धननिमित्तं धनार्थं वधपरिणतौ एकैकं अन्योऽन्यं हृदे मत्स्येन निर्वेद इति गाथाक्षरार्थः / / भावार्थस्तु कथानकादवसेयः, तच्चेदं एगमि संनिवेसे दो भायरो दरिद्दप्पाया, तेहिं सोरट्ठे गंतूण साहस्सिओणउलओ रूवगाणं विढविओ, ते असयंगाम संपत्थिया, इंता तंणउलयं वारएण वहंति, जया एगस्स हत्थे तदा (r) एकस्मिन् सन्निवेशे द्वौ भ्रातरौ दरिद्रप्रायौ, ताभ्यां सौराष्ट्रं गत्वा साहसिको नकुलको रूपकाणामर्जितः, तौ च स्वकं ग्राम संप्रस्थितौ, आयान्तौ तं नकुलकं वारकेण वहतः, यदा एकस्य हस्ते तदा