________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 55 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 1 | नियुक्तिः 53 चरितकल्पितो दाहरणं तदृष्टान्तश्च। चरितं च कल्पितं चे(वे)ति द्विविधमुदाहरणम्, तत्र चरितमभिधीयते यद्वृत्तम्, तेन कस्यचिद् दार्शन्तिकार्थप्रतिपत्तिर्जन्यते, तद्यथा-दुःखाय निदानम्, यथा ब्रह्मदत्तस्य / तथा कल्पितंस्वबुद्धिकल्पनाशिल्पनिर्मितमुच्यते, तेन च कस्यचिद्दान्तिकार्थप्रत्तिपत्तिर्जन्यते, यथा- पिष्पलपत्रैरनित्यतायामिति, उक्तंच-जह तुब्भे तह अम्हे तुब्भेवि अहोहिहा जहा अम्हे। अप्पाहेइ पडत पंडुअपत्तं किसलयाणं॥१॥णवि अत्थि णवि अ होही उल्लावो किसलपंडुपत्ताणं। उवमा खलु एस कया भविअजणविबोहणट्ठाए // 2 // इत्यादि / आह- इदमुदाहरणं दृष्टान्त उच्यते, तस्य च साध्यानुगमादि लक्षणमिति, उक्तं च- साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता। ख्याप्यते यत्र दृष्टान्तः, स साधर्म्यतरो द्विधा॥१॥ अस्य पुनस्तल्लक्षणाभावात् कथमुदाहरणत्वमिति?, अत्रोच्यते, तदपि कथञ्चित्साध्यानुगमादिनादान्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम्, इहापिच साऽस्त्येवेतिकृत्वा किं नोदाहरणतेति? साध्यानुगमादि लक्षणमपि सामान्यविशेषोभयरूपानन्तधर्मात्मके वस्तुनि सति कथञ्चिद्भेदवादिन एव युज्यते, नान्यस्य, एकान्तभेदाभेदयोस्तदभावादिति, तथाहि- सर्वथा प्रतिज्ञादृष्टान्तार्थभेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वादिप्रतिबन्धदर्शनमपि प्रकृतानुयोग्येव, भिन्नवस्तुधर्मत्वात्, सामान्यस्य च परिकल्पितत्वादसत्त्वाद्, इत्थमपि च तद्बलेन साध्यार्थप्रतिबन्धकल्पनायां सत्यामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, एवं सर्वथा अभेदवादिनोऽप्येकत्वादेव तदभावो भावनीय इति, अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि तत्तद्धर्मसामर्थ्यात्ततद्वस्तुनः प्रतिबन्धबलेनैव तस्य तस्य वस्तुनोगमकं भवति, अन्यथा ततस्तस्मिंस्तत्प्रतिपत्त्यसम्भव इति कृतं प्रसङ्गेन, प्रकृतं ®यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयम् / उपालभते पतत् पाण्डुरपत्रं किशलयान्॥ 1 // नैवास्ति नैव भविष्यति उल्लापः किशलयपाण्डुरपत्रयोः। उपमा | खल्वेषा कृता भविकजनविबोधनार्थाय // 2 // // 55 //