SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 52 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 1 नियुक्ति: 49 जिनवचन युक्त्युभयसिद्धत्वम्। भावतश्चित्रः, क्रोधादिपरित्यागरूपत्वात्तस्येति, उक्तं च-दव्वे भावे अ तहा दुहा विसग्गो चउविहो दव्वे / गणदेहोवहिभत्ते भावे कोहादिचाओ त्ति // 1 // काले गणदेहाणं अतिरित्तासुद्धभत्तपाणाणं / कोहाइयाण सययं कायव्वो होइ चाओ त्ति // 2 // उक्तो व्युत्सर्गः, अभिंतरओ तवो होइ त्ति, इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनभिलक्ष्यत्वात्तन्त्रान्तरीयैश्च भावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरं तपो भवतीति गाथार्थः॥शेषपदानांप्रकटार्थत्वात् सूत्रपदस्पर्शिका नियुक्तिकृता नोक्ता, स्वधिया तु विभागे (न) स्थापनीयेति॥अत्राह-'धर्मोमङ्गलमुत्कृष्ट' मित्यादौ धर्मग्रहणेसति अहिंसासंयमतपोग्रहणमयुक्तम्, तस्याहिंसासंयमतपोरूपत्वाव्यभिचारादिति, उच्यते, न, अहिंसादीनां धर्मकारणत्वाद्धर्मस्य च कार्यत्वात्कार्यकारणयोश्च कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च तस्य द्रव्यपर्यायोभयरूपत्वात्, उक्तं च- णत्थि पुढवीविसिट्ठो घडोत्ति जं तेण जुज्जइ अणण्णो। जंपुण घडुत्ति पुव्वं नासी पुढवीइ तो अन्नो॥१॥इत्यादि, गम्यादिधर्मव्यवच्छेदेन तत्स्वरूपज्ञापनार्थं वाऽहिंसादिग्रहणमदुष्टमित्यलं विस्तरेण ॥आह- अहिंसासंयमतपोरूपोधर्मो मङ्गलमुत्कृष्टमित्येतद्वचः किमाज्ञासिद्धमाहोस्विद्युक्तिसिद्धमपि?, अत्रोच्यते, उभयसिद्धम्, कुतो?, जिनवचनत्वात्, तस्य च विनेयसत्त्वापेक्षयाऽऽज्ञादिसिद्धत्वात्, आह च नियुक्तिकारः नि०-जिणवयणं सिद्धं चेव भण्णए कत्थई उदाहरणं / आसज्ज उ सोयारं हेऊऽवि कहिंचि भण्णेज्जा // 49 // जिनाःप्राग्निरूपितस्वरूपास्तेषां वचनं तदाज्ञया सिद्धमेव- सत्यमेव प्रतिष्ठितमेव अविचार्यमेवेत्यर्थः, कुतः?, जिनानां रागादिरहितत्वात्, रागादिमतश्च सत्यवचनासम्भवात्, उक्तं च-रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् / यस्य तु नैते दोषास्त 0 द्रव्ये भावे च तथा द्विधा व्युत्सर्गः चतुर्विधो द्रव्ये / गणदेहोपधिभक्तेषु भावे क्रोधादित्याग इति // 1 // काले गणदेहयोःअतिरिक्ताशुद्धभक्तपानानाम् / क्रोधादिकानां सततं कर्तव्यो भवति त्याग इति // २॥6नास्ति पृथ्वीविश्लिष्टो घट इति यत्तेन युज्यते अनन्यः / यत्पुनर्घट इति पूर्वं नासीत्पृथिव्यास्ततोऽन्यः॥१॥ // 52 // 8
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy