SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 51 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 1 नियुक्ति: 48 अभ्यन्तरतप:प्रतिपादनम्। पवयणओ, एगोलिंगओ विपवयणओ वि, एगोण लिंगओण पवयणओ, कुलगणसंघा पसिद्धा चेव / इदानी सज्झाओ, सो अपंचविहो-वायणा पुच्छणा परिअट्टणा अणुप्पेहा धम्मकहा, वायणा नाम सिस्सस्स अज्झावणं, पुच्छणा सुत्तस्स अत्थस्स वा हवइ, परिअट्टणा नाम परिअट्टणंति वा अब्भस्सणंति वा गुणणंति एगट्ठा, अणुप्पेहा नाम जो मणसा परिअट्टेइ णोवायाए, धम्मकहाणाम जो अहिंसाइलक्खणंसव्वण्णुपणीअंधम्म अणुओगंवा कहेइ, एसाधम्मकहा।गतःस्वाध्यायः, इदानीं ध्यानमुच्यते-तत्पुनरातदिभेदाच्चतुर्विधम्, तद्यथा-आर्तध्यानंरौद्रध्यानं धर्मध्यानंशुक्लध्यानं चेति, तत्र राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु / इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदातमिति तत्प्रवदन्ति तज्ज्ञाः॥१॥ संछेदनैर्दहनभञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च / यो याति रागमुपयाति च नानुकम्पां, ध्यानं तुरौद्रमिति तत्प्रवदन्ति तज्ज्ञाः॥ 2 // सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमहेतुचिन्ता / पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति तत्प्रवदन्ति तज्ज्ञाः॥३॥ यस्येन्द्रियाणि विषयेषु पराङ्गखानि, सङ्कल्पकल्पनविकल्पविकारदोषैः। योगैः सदा त्रिभिरहो निभृतान्तरात्मा, ध्यानोत्तम प्रवरशुक्लमिदं वदन्ति॥४॥ आर्ते तिर्यगितिस्तथा गतिरधो ध्याने तु रौद्रे सदा, धर्मे देवगतिः शुभं बत फलं शुक्ले तु जन्मक्षयः / तस्माद् व्याधिरुगन्तके हितकरे संसारनिर्वाहके, ध्याने शुक्लवरे रजःप्रमथने कुर्यात् प्रयत्नं बुधः॥५॥इति / उक्तं समासतो ध्यानम्, विस्तरतस्तु ध्यानशतकादवसेयमिति।साम्प्रतं व्युत्सर्गः,सच द्विधा- द्रव्यतोभावतः, द्रव्यतश्चतुर्धा- गणशरीरोपध्याहारभेदात्, प्रवचनतः, एको लिङ्गतोऽपि प्रवचनतोऽपि, एको न लिङ्गतो न प्रवचनतः, कुलगणसङ्घाः प्रसिद्धाश्चैव / इदानीं स्वाध्यायः, स च पञ्चविधः- वाचना प्रच्छना परिवर्तनाऽनुप्रेक्षा धर्मकथा। वाचना नाम शिष्यस्याध्यापनम् / प्रच्छना सूत्रस्य अर्धस्य वा भवति / परिवर्त्तना नाम परिवर्तनमिति वा अभ्यसनमिति वा गुणनमिति वा एकार्थाः / अनुप्रेक्षा नाम यो मनसा परिवर्त्तयति न वाचा। धर्मकथा नाम योऽहिंसादिलक्षणं सर्वज्ञप्रणीतं धर्ममनुयोगं वा कथयति, एषा धर्मकथा / // 51 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy