________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 44 // वा तदभ्यासपराणामवगन्तव्या, न पुनरन्येषाम्, उपध्यभावे समग्रसंयमाभावाद् अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तंच-जं प्रथममध्ययन वट्टइ उवयारे उवगरणं तं सि होइ उवगरणं। अरेगं अहिगरणं अजयं अजओ परिहरंतो॥१॥इत्यादि / भक्तपानोनोदरता पुनरात्मीया द्रुमपुष्पिका, सूत्रम् 1 हारादिमानपरित्यागवतो वेदितव्या, उक्तं च-बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलिआए अट्ठावीस नियुक्तिः 47 हवे कवला॥१॥ कवलाण य परिमाणं कुक्कुडिअंडयपमाणमेत्तं तु / जो वा अविगिअवयणो वयणम्मि छुहेज वीसत्थो॥२॥ इत्यादि, बाातप: प्रतिपादनम्। एवं व्यवस्थिते सत्यूनोदरता अल्पाहारादिभेदतः पञ्चविधा भवति, उक्तं च-अप्पाहार अवड्डा दुभाग पत्ता तहेव किंचूणा / अट्ठ दुवालस सोलस चउवीस तहेक्कतीसा य // 11 // अयमत्र भावार्थ:- अल्पाहारोनोदरता नामैककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककवलमाना जघन्या, अष्टकवलमाना पुनरुत्कृष्टा, शेषभेदा मध्यमा च, एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदपाङ्खनोदरता जघन्यादिभेदा भावनीया इति, एवं त्रयोदशभ्य आरभ्य यावत्षोडश तावद् द्विभागोनोदरता, एवंसप्तदशभ्य आरभ्य यावच्चतुर्विंशतिस्तावत्प्राप्ता, इत्थं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्तावत्किञ्चिदूनोदरता, जघन्यादिभेदाः सुधियाऽवसेयाः, एवमनेनानुसारेण पानेऽपि वाच्याः, एवं योषितोऽपि द्रष्टव्या इति, भावोनोदरता पुनः क्रोधादिपरित्याग इति, उक्तंच-कोहाईणमणुदिणंचाओ जिणवयणभावणाओअ। भावेणोणोदरिआ पण्णत्ता वीअरागेहिं॥१॥ इत्यादि। उक्तोनोदरता, इदानीं वृत्तिसङ्केप उच्यते-स च गोचराभिग्रहरूपः,ते चानेकप्रकाराः, तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च,तत्र द्रव्यतो यद्वर्त्तत उपकारे उपकरणं तदस्य भवत्युपकरणम् / अतिरेकमधिकरणमयतमयतः परिभुञ्जन् // 1 // 6 द्वात्रिंशत्किल कवला आहार: कुक्षिपूरको भणितः। पुरुषस्य महिलायाः अष्टाविंशतिः स्युः कवलाः // 1 // कवलानां च परिमाणं कुक्कुट्यण्डकप्रमाणमात्रमेव / यो वाऽविकृतवदनो वदने क्षिपेत् विश्वस्तः।। 2008 क्रोधादीनामनुदिनं त्यागः जिनवचनभावनातश्च / भावेनोनोदरता प्रज्ञप्ता वीतरागैः / / 1 / / // 44 //