SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 39 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 1 नियुक्तिः 45 हिंसाऽहिंसास्वरूपः। निर्देश' इतिकृत्वा हिंसाविपक्षतोऽहिंसा, तां प्रतिपादयन्नाह नि०- हिंसाए पडिवक्खो होइ अहिंसा चउव्विहा साउ। दव्वे भावे अतहा अहिंसऽजीवाइवाओत्ति // 45 // तत्र प्रमत्तयोगात्त् प्राणव्यपरोपणं हिंसा, अस्याः हिंसायाः किं?- प्रतिकूल: पक्षः प्रतिपक्षः- अप्रमत्ततया शुभयोगपूर्वक प्राणाव्यपरोपणमित्यर्थः, किं?- भवत्यहिंसेति, तत्र चतुर्विधा चतुष्प्रकारा अहिंसा, दव्वे भावे अत्ति द्रव्यतो भावतश्चेत्येको भङ्गः, तथा द्रव्यतो नो भावतः तथा न द्रव्यतो भावतः, तथा न द्रव्यतो न भावत इति तथाशब्दसमुच्चितो भङ्गत्रयोपन्यासः, अनुक्तसमुच्चयार्थकत्वादस्येति, उक्तं च तथा समुच्चयनिर्देशावधारणसादृश्यप्रकारवचनेष्वित्यादि, किं तत्रायं भङ्गकभावार्थ:द्रव्यतो भावतश्चेति, जहा केइ पुरिसे मिअवहपरिणामपरिणए मियं पासित्ता आयन्नाइड्डियकोदंडजीवे सरं णिसिरिज्जा, से अमिए तेण सरेण विद्धे मए सिआ, एसा दव्वओ हिंसा भावओवि।या पुनर्द्रव्यतो न भावतःसा खल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति, उक्तं च- उच्चालिअम्मि पाए इरियासमिअस्स संकमट्ठाए। वावजेज कुलिंगी मरिज्जतं जोगमासज्जा॥१॥न य तस्स तण्णिमित्तो बंधो सुहमो वि देसिओ समए। जम्हा सो अपमत्तो सा य पमाओत्ति निद्दिट्ठा॥२॥ इत्यादि। या पुनर्भावतो न द्रव्यतः, सेयं-जहा केवि पुरिसे मंदमंदप्पगासप्पदेसे संठियं ईसिवलिअकायं रज्जु पासित्ता एस अहित्ति तव्वहपरिणामपरिणए णिकड्डियासिपत्ते 0 यथा कश्चित् पुरुषो मृगवधपरिणामपरिणतः मृगं दृष्ट्रा आकर्णाकृष्टकोदण्डजीवः शरं निसृजेत्, स च मृगस्तेन शरेण विद्धो मृतः स्यात्, एषा द्रव्यतो हिंसा भाव तोऽपि। 0 उचालिते पादे ईर्यासमितेन संक्रमणार्थम् / व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य // 1 // न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये / यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिष्टा // 2 // 0 यथा कश्चित्पुरुषः मन्दमन्दप्रकाशदेशे संस्थितामीषदलितकायं रज्जु दृष्ट्रा एषोऽहिरिति तद्वधपरिणामपरिणतः निष्कृष्टासिपत्रो द्रुतं द्रुतं छिन्द्यात्, एषा भावतो हिंसा न द्रव्यतः।* द्वीन्द्रियादिः वि. प.। 8 // 39
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy