________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् नियुक्तिः 43 धर्मनिक्षेपे लोकोत्तरो भावधर्मः। // 37 // द्विविधो- द्विप्रकारो लोकोत्तरो लोकप्रधानो, धर्म इति वर्त्तते, तथा चाह- श्रुतधर्मः खलु चारित्रधर्मश्च, तत्र श्रुतं- द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः,खलुशब्दो विशेषणार्थः, किं विशिनष्टि?- स हि वाचनादिभेदाच्चित्र इति, आह च- श्रुतधर्मः स्वाध्यायःवाचनादिरूपः, तत्त्वचिन्तायां धर्महेतुत्वाद्धर्म इति / तथा चारित्रधर्मश्च, तत्र चर गतिभक्षणयोः इत्यस्य अर्तिलूधूसूखनसहचर इनन् (पा० 3-2-184) इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावचारित्रम्, अशेषकर्मक्षयाय चेष्टेत्यर्थः, ततश्चारित्रमेव धर्मः चारित्रधर्म इति / चः समुच्चये। अयं च श्रमणधर्म एवेत्याहचारित्रधर्मः श्रमणधर्म इति, तत्र श्राम्यतीति श्रमणः कृत्यल्युटो बहुलम् (पा०३-३-११३) इति वचनात् कर्त्तरिल्युट्, श्राम्यतीतितपस्यतीति, एतदुक्तं भवति- प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतौ गुरूपदेशादनशनादि यथाशक्त्याऽऽ प्राणोपरमात्तपश्चरतीति, उक्तं च- यःसमः सर्वभूतेषु, त्रसेषु स्थावरेषु च। तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः॥ 1 // इति, तस्य धर्मः स्वभावः श्रमणधर्मः,सच क्षान्त्यादिलक्षणों वक्ष्यमाण इति गाथार्थः / उक्तो धर्मः, साम्प्रतं मङ्गलस्यावसरः, तच्च प्राग्निरुपितशब्दार्थमेव, तत्पुनर्नामादिभेदतश्चतुर्धा, तत्र नामस्थापने क्षुण्णत्वात्साक्षादनादृत्य द्रव्यभावमङ्गलाभिधित्सयाऽऽह खमा मद्दवं अजव सोयं सच्चं संजमो तवो चाओ अकिंचणियत्तणं बंभचेरमिति / तत्थ खमा आकुट्ठस्स वा तालियस्स वा अहियासेंतस्स कम्मक्खओ भवइ, 0 * अणहियासेंतस्स कम्मबंधो भवइ, तम्हा कोहस्स निग्गहो कायब्वो, उदयपत्तस्स वा विफलीकरणं, एस खमत्ति वा तितिक्खत्ति वा कोधनिगहेति वा एगट्ठा / मद्दवं नाम जाइकुलादीहीणस्स अपरिभवणसीलत्तणं जहाऽहं उत्तमजातीओ एस नीयजातीओत्ति मदो न कायव्वो, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेंतस्स य कम्मोवचयो भवइ, माणस्स उद्दिन्नस्स निरोहो उदयपत्तस्स विफलीकरणमिति / अज्जवं नाम उजुगत्तणंति वा अकुडिलत्तणंति वा एवं च कुव्वमाणस्स कम्मनिजरा भवइ, अकुव्वमाणस्स य कम्मोवचयो भवइ / मायाए उदंतीए णीरोहो कायव्वो उदिण्णाए विफलीकरणंति। सोए नाम अलुद्धया धम्मोवगरणेसुवि, एवं च कुब्वमाणस्स कम्मनिज्जरा भवति, तत्र संयमादिना क्षान्तिप्रमुखेन मूलोत्तरगुणाख्यानम् / // 37 //