________________ O 39 श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 35 // इह त्रिविधोऽधिकृतो धर्मः, तद्यथा- द्रव्यधर्म:अस्तिकायधर्मः प्रचारधर्मश्चेति / तत्र द्रव्यं चेत्यनेन धर्मधर्मिणोः कथञ्चिदभेदान द्रव्यधर्ममाह, तथास्तिकाय इत्यनेन तु सूचनात् सूत्रमितिकृत्वा उपलक्षणत्वादवयव एव समुदायशब्दोपचारादस्तिकायधर्म इति, प्रचारधर्मश्चेत्यनेन ग्रन्थेन द्रव्यधर्मदेशमाह / भावधर्मश्चेत्यनेन तु भावधर्मस्य स्वरूपमाह / साम्प्रतं प्रथमोद्दिष्टद्रव्यधर्मस्वरूपाभिधित्सयाऽऽह- द्रव्यस्य पर्याया- ये उत्पादविगमादयस्ते धर्मास्तस्य द्रव्यस्य, ततश्च द्रव्यस्य धर्मा द्रव्यधर्मा इत्यन्यासंसक्तैकद्रव्यधर्माभावप्रदर्शनार्थो बहुवचननिर्देश इति गाथार्थः // इदानीमस्तिकायादिधर्मस्वरूपप्रतिपिपादयिषयाऽऽह नि०-धम्मत्थिकायधम्मो पयारधम्मोय विसयधम्मोय। लोइयकुप्पावयणिअलोगुत्तर लोगऽणेगविहो // 41 // धर्मग्रहणादू धर्मास्तिकायपरिग्रहः, ततश्च धर्मास्तिकाय एव गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मकः अस्तिकायधर्म इति / अन्ये तु व्याचक्षते-धर्मास्तिकायादिस्वभावोऽस्तिकायधर्म इति, एतच्चायुक्तम्, तत्र धर्मास्तिकायादीनां द्रव्यत्वेन तस्य द्रव्यधर्माव्यतिरेकादिति / तथा प्रचारधर्मश्च विषयधर्म एव, तुशब्दस्यैवकारार्थत्वात्, तत्र प्रचरणं प्रचारः, प्रकर्षगमनमित्यर्थः, स एवात्मस्वभावत्वाद्धर्मः प्रचारधर्मः, सच किं?- विषीदन्त्येतेषु प्राणिन इति विषया- रूपादयस्तद्धर्म एव, तथा च वस्तुतो विषयधर्म एवायं यद्रागादिमान् सत्त्वस्तेषु प्रवर्त्तत इति, चक्षुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हृदयम्, प्रधानसंसारनिबन्धनत्वेन चास्य प्राधान्यख्यापनार्थं द्रव्यधर्मात् पृथगुपन्यासः / इदानीं भावधर्मः, स च लौकिकादिभेदभिन्न इति, आह च- लौकिकः कुप्रावचनिकः लोकोत्तरस्तु, अत्र लोगोऽणेगविहो त्ति लौकिकोऽनेकविध इति गाथार्थः॥ तदेवानेकविधत्वमुपदर्शयन्नाह 0 तेसिं पंचण्हवि धम्मो णाम सब्भावो लक्खणंति एगट्ठा इति चूर्णिः। ॐ जो जस्स इंदिअस्स विसओ इति चूर्णिः / प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 1 नियुक्तिः |41-42 धर्मनिक्षेपेऽस्तिकायादिधर्मस्वरूपः धर्मनिक्षेपे भावधर्मभेदाः। // 35 //