________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् | // 34 // सूत्रम् नियुक्तिः 39-40 तथा क्वचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किञ्चित्कथयन्त्याचार्याः, तत्प्रत्यवस्थानमिति गम्यते, किमर्थं कथयन्त्यत आह-प्रथममध्ययनं शिष्याणामेव हितार्थम्, तुशब्द एवकारार्थः, तथा विपुलतरं तु प्रभूततरं तु कथयन्ति पुच्छाए त्ति शिष्यप्रश्ने सति, पटुप्रज्ञोऽ द्रुमपुष्पिका, यमित्यवगमादिति गाथार्थः॥ एवं तावत्समासेन, व्याख्यालक्षणयोजना। कृतेयं प्रस्तुते सूत्रे, कार्यैवमपरेष्वपि // 1 // ग्रन्थविस्तरदोषान्न, वक्ष्याम उपयोगितु।वक्ष्यामः प्रतिसूत्रंतु, यत् सूत्रस्पर्शिकाऽधुना॥२॥प्रोच्यतेऽनुगमनियुक्तिविभागश्च धर्मपदविशेषतः। सामायिकबृहद्भाष्याज्ज्ञेयस्तत्रोदितं यतः॥३॥ होइ कयत्थो वोत्तुं सपयच्छेअंसुअंसुआणुगमो। सुत्तालावगनासो निक्षेपा:नामादिण्णासविणिओगं॥१॥ सुत्तप्फासिअनिजुत्तिणिओगो सेसओ पयत्थाइ। पायं सोच्चिय नेगमणयाइमयगोअरो होइ॥२॥ एवं द्रव्यधर्मसुत्ताणुगमो सुत्तालावगकओ अनिक्खेवो / सुत्तप्फासिअणिज्जुत्ति णया असमगंतु वच्चन्ति॥३॥ इत्यलंप्रसङ्गेन, गमनिकामात्रमेतत् / निक्षेपाश्च। तत्र धर्मपदमधिकृत्य सूत्रस्पर्शिकनियुक्तिप्रतिपादनायाह नि०- णामंठवणाधम्मो दव्वधम्मो अभावधम्मो अ। एएसिं नाणत्तं वुच्छामि अहाणुपुव्वीए॥३९॥ णामंठवणाधम्मो त्ति अत्र धर्मशब्दः प्रत्येकमभिसम्बध्यते, नामधर्मः स्थापनाधर्मो द्रव्यधर्मो भावधर्मश्च / एतेषां नानात्वं भेदं वक्ष्ये अभिधास्ये यथानुपूर्व्या यथानुपरिपाट्येति गाथार्थः। साम्प्रतं नामस्थापने क्षुण्णत्वादागमतो नोआगमतश्च ज्ञात्रनुपयुक्तज्ञशरीरेतरभेदांश्चानादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यधर्माद्यभिधित्सयाऽऽह नि०-दव्वं च अत्थिकायप्पयारधम्मो अभावधम्मो अ।दव्वस्स पज्जवाजे ते धम्मा तस्स दव्वस्स // 40 // ®भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः / सूत्रालापकन्यासो नामादिन्यासविनियोगम् // 1 // सूत्रस्पर्शिकनियुक्तिनियोगः शेषकः पदार्थादीन् / प्रायः स एव नैगमनयादिमतगोचरो भवति // 2 // एवं सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः / सूत्रस्पर्शिकनियुक्तिः नयाश्च युगपत्तु व्रजन्ति / / 3 //