SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 33 // प्रत्यव प्रवृत्तिः। संयम इति रूपं भवति। तथा तप सन्तापेइत्यस्य धातोरसुन्प्रत्ययान्तस्य तप इति / तथा दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुति- प्रथममध्ययन स्वप्नकान्तिगतिषु इत्यस्य धातोरच्प्रत्ययान्तस्य जसि देवा इति भवति / अपिशब्दो निपातः। तदित्येतस्य सर्वनाम्नः द्रुमपुष्पिका, सूत्रम् 1 पुंस्त्वविवक्षायां द्वितीयैकवचनं तमिति भवति। तथा नमसित्यस्य प्रातिपदिकस्य नमोवरिवश्चित्रङः क्यच् (पा०३-१-१९) नियुक्ति: 38 इति क्यजन्तस्य लट् क्रियान्तादेशस्ततश्च नमस्यन्तीति भवति / तथा यदिति सर्वनाम्नः षष्ठ्यन्तस्य यस्येति भवति / धर्मः चालनापूर्ववत् / सदेति सर्वस्मिन् काले सर्वैकान्यकिंयत्तदः काले दा (पा०५-३-१५) इति दाप्रत्ययः सर्वस्य सोऽन्यतरस्यां दि (पा०५-8 स्थानयोः 3-16) इति स आदेशः सदा। तथा मन ज्ञाने इत्यस्य धातोरसुन्प्रत्ययान्तस्य मन इति भवति / इति पदानि / साम्प्रतं पदार्थ उच्यते- तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तथा चोक्तं दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः। धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥ मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत्, उत्कृष्टं प्रधानम्, न हिंसा अहिंसा प्राणातिपातविरतिरित्यर्थः, संयमः आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति तपः- अनशनादि, दीव्यन्तीति देवाः क्रीडन्तीत्यादि भावार्थः, अपिः सम्भावने देवा अपि मनुष्यास्तु सुतराम्, तमित्येवंविशिष्टं जीवम्, नमस्यन्तीति प्रकटार्थम्, यस्य जीवस्य किं?- धर्मे प्रागभिहितस्वरूपे सदा सर्वकालं मन इत्यन्तःकरणम् / अयं पदार्थ इति। पदविग्रहस्तु परस्परापेक्षसमासभाक्पदपूर्वकत्वेनेह निबन्धनाभावान्न प्रदर्शित इति / चालनाप्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टाद् वक्ष्यामः / प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शनायाह नि०- कत्थइ पुच्छइ सीसो कहिंच पुट्ठा कहंति आयरिया। सीसाणं तु हियट्ठा विपुलतरागं तु पुच्छाए // 38 // क्वचित्किञ्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदिति इयमेव चालना, गुरुकथनं प्रत्यवस्थानम्, इत्थमनयोः प्रवृत्तिः।। // 33 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy