________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 32 // व्याख्या। पुनर्यथा तेनेदं नियूंढमिति तथा कथनेन कार्या इति / आह च-'जेणवजंच पडुच्चे' त्यादिना यत्पूर्वमुक्तं तदत्रैव क्रमप्राप्ताभि- प्रथममध्ययनं धानत्वात् तत्रायुक्तमिति, न, अपान्तरालोपोद्धातप्रतिपादकत्वेन तत्राप्युपयोगित्वादिति, आह-एवमपि महासम्बन्धपूर्वक- द्रुमपुष्पिका, त्वादपान्तरालोपोद्घातस्यात्रैवाभिधानन्याय्यमिति, न, प्रस्तुतशास्त्रान्तरङ्गत्वेन तत्राप्युपयोगित्वादिति कृतं प्रसङ्गेन, अक्षर-संहितादिगमनिकामात्रफलत्वात्प्रयासस्य। गत उपोद्घातनिर्युक्त्यनुगमः, साम्प्रतं सूत्रस्पर्शिकनियुक्त्यनुगमावसरः, स च सूत्रे सति षड्डिधाभवति, आह-यद्येवमिहोपन्यासोऽनर्थकः, न, नियुक्तिसामान्यादिति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, इह चास्खलितादिप्रकारं शुद्धं सूत्रमुच्चारणीयम्, तद्यथा-अस्खलितममिलितमव्यत्यानेडितमित्यादि यथाऽनुयोगद्वारेषु, ततस्तस्मिन्नुच्चरिते सति केषाञ्चिद्भगवतांसाधूनां केचनार्थाधिकारा अधिगता भवन्ति, केचन त्वनधिगताः, तत्रानधिगताधिगमायाल्पमतिविनेयानुग्रहाय च प्रतिपदं व्याख्येयम् / व्याख्यालक्षणं चेदं- संहिता च पदं चैव, पदार्थः पदविग्रहः / चालनाप्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा // 1 // इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः / किं च प्रकृतं?, सूत्रानुगमे सूत्रमुच्चरणीयमिति, तच्चेदं सूत्र धम्मो मंगलमुक्किटुं, अहिंसा संजमो तवो। देवावि तं नमसंति, जस्स धम्मे सया मणो // सूत्रम् 1 // तत्रास्खलितपदोच्चारणं संहिता, सा पाठसिद्धैव। अधुना पदानि- धर्मः मङ्गलं उत्कृष्ट अहिंसा संयमः तपः देवाः अपि तं नमस्यन्ति यस्य धर्मे सदा मनः / तत्र धृञ् धारणे इत्यस्य धातोर्मप्रत्ययान्तस्येदं रूपं धर्म इति / मङ्गलरूपं पूर्ववत् / तथा कृष्ण विलेखने इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तस्येदंरूपमुत्कृष्टमिति / तथा तृहि हिसि हिंसायां इत्यस्य इदितो नुम् धातोः (पा०७-१-2 मे कृते स्यधिकारे टाबन्तस्य नपूर्वस्येदं रूपं यदुताहिंसेति। तथा यमु उपरमेइत्यस्य धातोः संपूर्वस्या प्रत्ययान्तस्य // 32 //