SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीहारिक प्रथममध्ययन द्रुमपुष्पिका, नियुक्ति: 37 पुष्पैकार्थिकानि सुसमादृष्टान्तादिश्च। श्रीदश एषणाग्रहणाद् गवेषणादिग्रहः, ततश्च तदर्थसूचकत्वादाहारैषणेति, तथा गोचरःसामयिकत्वाद् गोरिव चरणं गोचरोऽन्यथा वैकालिक गोचारः, तदर्थसूचकत्वाचाधिकृताध्ययनविशेषोगोचर इति, एवं सर्वत्र भावना कार्येति, भावार्थस्तुयथा गौश्चरत्येवमविशेषेण वृत्तियुतम् साधुनाऽप्यटितव्यम्, न विभवमङ्गीकृत्योत्तमाधममध्यमेषु कुलेष्विति, वणिग्वत्सकदृष्टान्तेन वेति, तथा त्वगिति' त्वगि॥२९॥ वासारं भोक्तव्यमित्यर्थसूचकत्वात् त्वगुच्यत इति, उक्तंच परममुनिभिः- जहा चत्तारि घुणा पण्णत्ता, तंजहा- तयक्खाए छल्लिक्खाए कट्ठक्खाए सारक्खाए, एवामेव चत्तारि भिक्खुगा पन्नत्ता, तंजहा- तयक्खाए छल्लिक्खाए कट्ठक्खाए सारक्खाए, तयक्खाए णामं एगे नो सारक्खाए सारक्खाए णाम एगे नो तयक्खाए एगे तयक्खाए वि सारक्खाए वि एगे नो तयक्खाए णो सारक्खाए / तयक्खायसमाणस्सणं भिक्खुस्स सारक्खायसमाणे तवे भवइ, एवं जहा ठाणे तहेव दट्ठव्वं / भावार्थस्तु भावतस्त्वकल्पासारभोक्तुः कर्मभेदमङ्गीकृत्य वज्रसारं तपो भवति, तथा उंछंइति अज्ञातपिण्डोञ्छसूचकत्वादिति, तथा मेष इति यथा मेषोऽल्पेऽप्यम्भसि अनुद्वालयन्नेवाम्भः पिबति, एवं साधुनाऽपि भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन भिक्षा ग्राह्येत्येवंविधार्थसूचकत्वादधिकृताभिधानप्रवृत्तिरिति, तथा जलौका इति अनेषणाप्रवृत्तदायकस्य मृदुभावनिवारणार्थसूचकत्वादिति, तथा सर्प इति यथाऽसावेकदृष्टिर्भवत्येवं गोचरगतेन संयमैकदृष्टिना भवितव्यमित्यर्थसूचकत्वादिति, अथवा- यथा द्रागस्पृशन् सर्पो बिलं प्रविशत्येवं साधुनाऽप्यनास्वादयता भोक्तव्यमिति, तथा व्रण इत्यरक्तद्विष्टेन व्रणलेपदानवद्धोक्तव्यम्, तथा अक्ष इत्यक्षोपाङ्गदानवच्चेति, 80 यथा सालङ्कारवणिग्वधूहस्ताद्भक्ष्यमात्त्वाऽत्ति वत्सस्तद्रूपालङ्काराद्यनिरीक्षमाणस्तथा साधुरपि। 0 यथा चत्वारो घुणाः प्रज्ञप्ताः, तद्यथा- त्वक्खादकः छल्लीखादकः काष्ठखादकः सारखादकः। एवमेव चत्वारो भिक्षुकाः प्रज्ञप्ताः, तद्यथा-त्वक्खादकः छल्लीखादकः (अन्तस्त्वक् छल्ली) काष्टखादकः सारखादकः / त्वक्खादको नामैकः नो सारखादकः सारखादको नामैको नो त्वक्खादकः एकस्त्वक्खादकोऽपि एको नो त्वक्खादको नो सारखादकः / त्वक्खादकसमानस्य भिक्षोः सारखादकसमानं तपो भवति, एवं यथा स्थानाङ्गे तथैव द्रष्टव्यम् / // 29 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy