________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 28 // प्रथममध्ययन द्रुमपुष्पिका, नियुक्ति: 35 द्रुमपर्यायशब्दाः / नियुक्तिः 36-37 पुष्पैकार्थिकानि सुसमादृष्टान्तादिश्च। भवति निक्षेप इति गाथार्थः॥ साम्प्रतं नानादेशजविनेयगणासम्मोहार्थमागमे द्रुमपर्यायशब्दान् प्रतिपादयन्नाह नि०-दुमा य पायवा रुक्खा, अगमा विडिमा तरू। कुहा महीरुहा वच्छा, रोवगारुंजगावि अ॥३५॥ द्रुमाश्च पादपा वृक्षा अगमा विटपिनः तरवः कुहा महीरुहा वच्छा रोपका रुञ्जकादयश्च / तत्र दुमान्वर्थसंज्ञा पूर्ववत्, पद्भ्यां पिबन्तीति पादपा इत्येवमन्येषामपि यथासम्भवमन्वर्थसंज्ञा वक्तव्या, रूढिदेशीशब्दा वा एत इति गाथार्थः // इदानीं पुष्पैकार्थिकप्रतिपादनायाह नि०-पुष्पाणि अकुसुमाणि अफुल्लाणि तहेव होंति पसवाणि / सुमणाणि असुहुमाणि अपुप्फाणं होंति एगट्ठा // 36 // पुष्पाणि कुसुमानि चैव फुल्लानि प्रसवानि च सुमनांसि चैव सूक्ष्माणि सूक्ष्मकायिकानिचेति ॥साम्प्रतमेकवाक्यतया द्रुमपुष्पिकाध्ययनशब्दार्थ उच्यते-द्रुमस्य पुष्पं द्रुमपुष्पम्, अवयवलक्षण: षष्ठीसमासः, द्रुमपुष्पशब्दस्य प्रागिवात्कः (पा०५-३-७) इति वर्तमाने अज्ञाते (73) कुत्सिते (74) (के) संज्ञायां कनि (75) ति कनि प्रत्यये नकारलोपे च कृते द्रुमपुष्पक इति, प्रातिपदिकस्य स्त्रीत्वविवक्षायां अजाद्यतष्टाप् (4-1-4) इति टाप्प्रत्ययेऽनुबन्धलोपेच कृते प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः (पा०७-३-४४) इतीत्त्वे कृते अकः सवर्णे दीर्घः (पा०६-१-१०१) इति दीर्घत्वे परगमने च द्रुमपुष्पिकेति भवति, द्रुमपुष्योदाहरणयुक्ता द्रुमपुष्पिकेति, द्रुमपुष्पिका चासौ अध्ययनं चेति समानाधिकरणस्तत्पुरुषः, द्रुमपुष्पिकाध्ययनमिति // अस्य चैकार्थिकानि प्रतिपादयन्नाह नि०- दुमपुप्फिआय आहारएसणा गोअरे तया उंछो / मेस जलूगा सप्पे वणऽक्खइसुगोलपुत्तुदए // 37 // तत्र द्रुमपुष्पोदाहरणयुक्ता द्रुमपुष्पिकेति, वक्ष्यति च-'जहा दुमस्स पुप्फेसु' इत्यादि, तथा आहारस्यैषणा आहारैषणा, // 28 //