SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 27 // भावाध्ययन दुमपुष्य प्ररूपणा। अध्ययनेन च हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थः / अधुना क्षपणा, साऽपि भावत इदमेवेति, आह च- अष्टविधं प्रथममध्ययन अष्टप्रकारं कर्मरजः, तत्र जीवगुण्डनपरत्वात्कमैव रजः कर्मरजः पुराणं प्रागुपात्तं यत् यस्मात्क्षपयति योगैः अन्तःकरणादिभि- द्रुमपुष्पिका, नियुक्तिः रध्ययनं कुर्वन् तस्मादिदमेव कारणे कार्योपचारात् क्षपणेति। तथा चाह- इदं भावाध्ययनं नेतव्यं योजनीयं आनुपूर्व्या परिपाट्या 28-33 अध्ययनाक्षीणादिष्विति गाथार्थः / उक्त ओघनिष्पन्नो निक्षेपः, साम्प्रतं नामनिष्पन्न उच्यते-तत्रौघनिष्पन्नेऽध्ययनं नामनिष्पन्ने / निक्षेपः। द्रुमपुष्पिकेति, आह-द्रुम इति कः शब्दार्थः?, उच्यते, दुद्रुगतौ इत्यस्य द्रुरस्मिन् देशे विद्यत इति तदस्यास्त्यस्मिन्निति (पा० नियुक्तिः 34 5-2-94) मतुपि प्राप्ते दुद्रुभ्यांमः (पा०५-२-१०८) इति मप्रत्ययान्तस्य द्रुम इति भवति / साम्प्रतं द्रुमपुष्पनिक्षेपप्ररूपणायाह निक्षेपनि०- णामदुमो ठवणदुमो दव्वदुमो चेव होइ भावदुमो / एमेव य पुप्फस्स वि चउव्विहो होइ निक्खेवो॥३४॥ नामद्रुमो यस्य द्रुम इति नाम द्रुमाभिधानं वा, स्थापनाद्रुमो द्रुम इति स्थापना, द्रव्यद्रुमश्चैव भवति भावद्रुमः तत्र द्रव्यद्रुमो द्विधा- आगमतो नोआगमतश्च, आगमतोज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तस्त्रिविधः, ताथाएकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, तत्रैकभविको नाम य एकेन भवेनानन्तरं द्रुमेषूत्पत्स्यते, बद्धायुष्कस्तु येन द्रुमनामगोत्रे कर्मणी बद्ध इति, अभिमुखनामगोत्रस्तुयेन ते नामगोत्रे कर्मणी उदीरणावलिकायांप्रक्षिप्ते इति, अयं च त्रिविधोऽपि भाविभावद्रुमकारणत्वाद्रव्यद्रुम इति, भावद्रुमोऽपि द्विविधः- आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु द्रुम एव द्रुमनामगोत्रे कर्मणी वेदयन्निति / एवमेव च यथा द्रुमस्य तथा किं?- पुष्पस्यापि वस्तुतस्तद्विकारभूतस्य चतुर्विधो Oआयुर्विशिष्टे इति ज्ञेयम्, तथा च न बद्धायुष्कताऽसंगतिः। // 27 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy