SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं| श्रीहारि० वृत्तियुतम् // 26 // भावाध्ययन नि०-अट्ठविहं कम्मरयं पोराणं जंखवेइ जोगेहिं। एयं भावज्झयणं नेअव्वं आणुपुव्वीए॥३३॥ प्रथममध्ययन आसांगमनिका- इह प्राकृतशैल्या छान्दसत्त्वाच्च अज्झप्पस्साणयणं पकारस (स्स) कारआकारणकारलोपे अज्झयणं तिल द्रुमपुष्पिका, नियुक्तिः भण्णइ, तच्च संस्कृतेऽध्ययनम्, भावार्थस्त्वयं- अधि आत्मनि वर्तत इति निरुक्तादध्यात्म चेतस्तस्यानयनं आनीयतेऽनेने 28-33 त्यानयनम्, इह कर्ममलरहितः खल्वात्मैव चेतःशब्देन गृह्यते, यथाऽवस्थितस्य शुद्धस्य चेतस आनयनमित्यर्थः, तथा निक्षेपः। चैतदभ्यासाद्भवत्येव, किं?- कर्मणांज्ञानावरणीयादीनां अपचयो ह्रासः, किंविशिष्टानाम्?- उपचितानां मिथ्यात्वादिभिरुपदिग्धानां बद्धानामितिभावः, तथा अनुपचयश्च अवृद्धिलक्षणः नवानां प्रत्यग्राणां कर्मणाम्, यतश्चैवं तस्मात् प्राकृतशैल्याऽध्यात्मानयनमेवाध्ययनमिच्छन्त्याचार्या इति गाथार्थः॥अधिगम्यन्ते परिच्छिद्यन्ते वा अर्था अनेनेत्यधिगमनमेव प्राकृतशैल्या तथाविधार्थप्रदर्शकत्वाच्चास्य वचसोऽध्ययनमिति, तथा अधिकं च नयनमिच्छन्त्यस्याप्य(पि तथाविधा)र्थप्रदर्शकत्वादेव वचसोऽयमर्थः, अय वय' इत्यादिदण्डकधातुपाठान्नीतिर्नयनम्, भावे ल्युट्प्रत्ययः, परिच्छेद इत्यर्थः, अधिकं नयनमधिकनयनंचार्थतोऽध्ययनमिच्छन्ति, चशब्दस्य चव्यवहित उपन्यासः, अधिकंचसाधुर्गच्छति, किमुक्तं भवति?- अनेन करणभूतेन साधुर्बोधसंयममोक्षान् प्रत्यधिकं गच्छति, यस्मादेवं तस्मादध्ययनमिच्छन्ति, इह च सर्वत्र अधिकं नयनमध्ययनमित्येवं योजना कार्येति गाथार्थः / इदानीमक्षीणं- तच्च भावाक्षीणमिदमेव, शिष्यप्रदानेऽप्यक्षयत्वात्, तथा चाह- यथा दीपाद्दीपशतं प्रदीप्यते, स च दीप्यते दीपः, एवं दीपसमा दीपतुल्या आचार्या दीप्यन्ते स्वतो विमलमत्याधुपयोगयुक्तत्वात् परं च विनेयं दीपयन्ति प्रकाशयन्त्युज्ज्वलंवा कुर्वन्तीति गाथार्थः॥इदानीमायः-सच भावत इदमेव, यत आह-ज्ञानस्य मत्यादेः दर्शनस्य चौपशमिकादेः चरणस्य च सामायिकादेः येन हेतुभूतेन आगमो भवति प्राप्तिर्भवति स भवति भावायः, आयो लाभ इति निर्दिष्टः, // 26 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy