________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 24 // प्रथममध्ययनं द्रुमपुष्पिका, नियुक्तिः 24-25 संक्षेपेण चूडाद्वयार्थाधिकारः। // 1 // इत्यादि / एतेषु एव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग् भिक्षुरित्यनेन सम्बन्धेन सभिक्ष्वध्ययनमिति, आह च- दशमेऽध्ययने समाप्तिं नीतमिदं साधुक्रियाभिधायकं शास्त्रं एतत्क्रियासमन्वित एव भिक्षुर्भवत्यत आह- एष भिक्षुरिति गाथाचतुष्टयार्थः॥स एवंगुणयुक्तोऽपि भिक्षुः कदाचित् कर्मपरतन्त्रत्वात्कर्मणश्च बलत्वा(वत्त्वा)त्सीदेत् ततस्तस्य स्थिरीकरणं कर्त्तव्यमतस्तदर्थाधिकारवदेव चूडाद्वयमित्याह नि०-दो अज्झयणा चूलिय विसीययंते थिरीकरणमेगं। बिइए विवित्तचरिया असीयणगुणाइरेगफला॥२४॥ द्वेअध्ययने, किं?-चूडा चूडेव चूडा, तत्र प्रमादवशाद्विषीदति सतिसाधौसंयमे स्थिरीकरणम्, एकंप्रथमं स्थिरीकरणफलमित्यर्थः, तथा च तत्रावधावनप्रेक्षिणः साधोः दुष्प्रजीवित्वनरकपातादयो दोषा वर्ण्यन्त इति / तथा च द्वितीयेऽध्ययने विविक्तचर्या वर्ण्यते, किंभूता? असीदनगुणातिरेकफला तत्र 'विविक्तचर्या' एकान्तचर्या- द्रव्यक्षेत्रकालभावेष्वसम्बद्धता, उपलक्षणं चैषाऽनियतचर्यादीनामिति, असीदनगुणातिरेकः फलं यस्याः सा तथाविधेति गाथार्थः॥ नि०- दसकालिअस्स एसो पिंडत्थो वण्णिओसमासेणं / एत्तो एक्केवं पुण अज्झयणं कित्तइस्सामि // 25 // दशकालिकस्य प्राग्निरूपितशब्दार्थस्य एषः अनन्तरोदितः पिण्डार्थः सामान्यार्थो वर्णितः प्रतिपादितः समासेन संक्षेपेण, अतःऊर्ध्वं पुनरेकैकमध्ययनं कीर्तयिष्यामि प्रतिपादयिष्यामीति, पुनःशब्दस्य व्यवहित उपन्यास इति गाथार्थः। तत्र प्रथमाध्ययन द्रुमपुष्पिका, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा- उपक्रमो निक्षेपोऽनुगमो नयः, एषांचतुर्णामप्यनुयोगद्वाराणामध्ययनादावुपन्यासस्तथेत्थं च क्रमोपन्यासे प्रयोजनमावश्यकविशेषविवरणादवसेयं स्वरूपंच प्रायश इति। प्रकृताध्ययनस्य &च शास्त्रीयोपक्रमे आनुपूर्व्यादिभेदेषु स्वबुद्ध्याऽवतारः कार्यः, अर्थाधिकारश्च वक्तव्यः, तथा चाह नियुक्तिकारः // 24 //