SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 23 // प्रथममध्ययन द्रुमपुष्पिका, नियुक्तिः 20-23 'यथास्थापितानी'ति पञ्चमद्वारे संक्षेपणा| ध्ययनार्था|धिकाराः। सम्मं, सुहजोगाण साहए॥१॥ इत्यादि / गोचरप्रविष्टेन च सता स्वाचारं पृष्टेन तद्विदापि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्यः, अपि तु आलये, गुरवो वा कथयन्तीति वक्तव्यमतस्तदर्थाधिकारवदेव षष्ठमध्ययनमिति, आह चषष्ठेऽध्ययनेऽर्थाधिकारः आचारकथा साऽपि महती, न क्षुल्लिका, योग्या उचिता महाजनस्य विशिष्टपरिषद इत्यर्थः, वक्ष्यति चः- गोअरग्गपविढे उन निसिएज्ज कत्थई। कहं च न पबंधिज्जा चिट्ठित्ताण व संजए॥१॥ इत्यादि / आलयगतेनापि तेन गुरुणा (वा) वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्यतस्तदर्थाधिकारवदेव सप्तममध्ययनमिति, आह च- वयणविभत्ती त्यादि, वचनस्य विभक्तिर्वचनविभक्तिः, विभजनं विभक्तिः- एवंभूतमनवद्यमित्थंभूतं च सावद्यमित्यर्थः, पुनःशब्दः शेषाध्ययनार्थाधिकारेभ्यः अस्याधिकृतार्थाधिकारस्य विशेषणार्थ इति सप्तमेऽध्ययनेऽर्थाधिकार इति, उक्तं च- सावज्जणवज्जाणं वयणाणं जो ण याणइ विसेसं। वोत्तुं पि तस्स न खमं किमंग पुण देसणं काउं?॥१॥ इत्यादि / तच्च निरवद्यं वचः आचारे प्रणिहितस्य भवति इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति, आह च- प्रणिधानमष्टमेऽध्ययनेऽर्थाधिकारत्वेन भणितं उक्तम्, प्रणिधानं नाम-विशिष्टश्चेतोधर्म इति, उक्तं च- पणिहाणरहियस्सेह, निरवजपि भासियं / सावज्जतुल्लं विन्नेयं, अज्झत्थेणेह संवुडं। 1 // इत्यादि / आचारप्रणिहितश्च यथोचितविनयसम्पन्न एव भवतीत्यतस्तदर्थाधिकारवदेव नवममध्ययनमिति, आह चनवमेऽध्ययने विनयोऽर्थाधिकारः इति, उक्तंच-आयारपणिहाणंमि, से सम्मं वट्टई बुहे। णाणादीणं विणीए जे, मोक्खट्ठा णिव्विगिच्छए सम्यक् शुभयोगानां साधकः // 1 // गोचराग्रप्रविष्टस्तु न निषीदेत् कुत्रचित् / कथां च न प्रबध्नीयात् स्थित्वा वा संयतः // 1 // 0 सावधानवद्यानां वचनानां यो न जानाति विशेषम् / वक्तुमपि तस्य नाह किमङ्ग पुनर्देशनां कर्तुम्?॥१॥0 प्रणिधानरहितस्येह निरवद्यमपि भाषितम् / सावद्यतुल्यं विज्ञेयमध्यात्मस्थेनेह संवृतम् | // 1 // 0 आचारप्रणिधाने स सम्यक् वर्तते बुधः। ज्ञानादिषु विनीतो यो मोक्षार्थ निर्विचिकित्सः // 1 // // 23 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy