________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 411 // सम ज्ञातपुत्रवचनं भगवन्महावीरवर्धमानवचनं आत्मसमान् आत्मतुल्यान्मन्येत षडपि कायान् पृथिव्यादीन्, पञ्च चे ति चशब्दोऽप्यर्थः दशममध्ययन पश्चापि स्पृशति सेवते महाव्रतानि पञ्चाश्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः॥५॥ सभिक्षुः, सूत्रम् 6-10 चत्तारि वमे सया कसाए, धुवजोगी हविज्ज बुद्धवयणे। अहणे निजायरूवरयए, गिहिजोगं परिवज्जए जे स भिक्खू॥सूत्रम् 6 // भिक्षुस्वरूप: सम्मद्दिट्ठी सया अमूढे, अत्थि हुनाणे तवे संजमे आतवसाधुणइ पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू॥सूत्रम् 7 // तहेव असणं पाणगंवा, विविहंखाइमसाइमंलभित्ता। होही अट्ठो सुए परेवा, तं न निहे न निहावए जेस भिक्खू।सूत्रम् 8 // सुखदुःखः। तहेव असणं पाणगंवा, विविहंखाइमसाइमंलभित्ता। छंदिअसाहम्मिआण भुंजे, भुच्चा सज्झायरए जे स भिक्खू॥सूत्रम् // न यवुग्गहिअंकहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते। संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जेस भिक्खू॥सूत्रम् 10 // किं च-चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन सदा सर्वकालं कषायान्, ध्रुवयोगी च-उचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति यथागममेवेति भावः, अधनः चतुष्पदादिरहितः निर्जातरूपरजतो निर्गतसुवर्णरूप्य इति भावः, गृहियोगं मूर्च्छया गृहस्थसंबन्धं परिवर्जयति सर्वैः प्रकारैः परित्यजति यः सह भिक्षुरिति सूत्रार्थः॥६॥तथा- सम्यग्दृष्टिः भावसम्यग्दर्शनी सदा अमूढः अविप्लुतः सन्नेवं मन्यते- अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणपापं भावसारया प्रवृत्त्या मनोवाक्कायसंवृतः तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति सूत्रार्थः // 7 // तथैवे ति पूर्वर्षिविधानेन अशनं पानं च प्रागुक्तस्वरूपं तथा विविधं अनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा प्राप्य, किमित्याहभविष्यति अर्थः प्रयोजनमनेन श्वः परश्वो वेति तद् अशनादि न निधत्ते न स्थापयति स्वयं तथा न निधापयति न स्थापयत्यन्यैः // 41