SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ दशममध्ययन श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 410 // निष्क्रम्य द्रव्यभावगृहात् प्रव्रज्यां गृहीत्वेत्यर्थः आज्ञया तीर्थकरगणधरोपदेशेन योग्यतायां सत्याम्, निष्क्रम्य किमित्याहबुद्धवचने अवगततत्त्वतीर्थकरगणधरवचने नित्यं सर्वकालं चित्तसमाहितः चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति सभिक्षुः, सूत्रम् 1-5 गर्भः, व्यतिरेकतः समाधानोपायमाह-स्त्रीणां सर्वासत्कार्यनिबन्धनभूतानां वशं तदायत्ततारूपं न चापि गच्छेत्, तद्वशगो हि घटकायानियमतो वान्तं प्रत्यापिबति, अतो बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागाद्, अनेनैवोपायेनान्योपायासंभवात्, वान्तं विराधको भिक्षुः। परित्यक्तं सद्विषयजम्बालं न प्रत्यापिबति न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स भिक्षुः- भावभिक्षुरिति सूत्रार्थः॥ १॥तथा- पृथिवीं सचेतनादिरूपांनखनतिस्वयंन खानयति परैः, एकग्रहणे तज्जातीयग्रहण'मिति खनन्तमप्यन्यंन समनुजानाति, एवं सर्वत्र वेदितव्यम् / शीतोदकं सचित्तं पानीयं न पिबति स्वयं न पाययति परानिति, अग्निः षड्जीवघातकः, किंवदित्याहशस्त्रंखड्गादि यथा सुनिशितं उज्ज्वालितं तद्वत्, तं न ज्वालयति स्वयं न ज्वालयति परैः, य इत्थंभूतः स भिक्षुः। आह षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थं पुनरुक्त इति, उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थम्, ततश्च न दोष इति सूत्रार्थः॥२॥ तथा अनिलेन अनिलहेतुना चेलकर्णादिना न वीजयत्यात्मादि स्वयं न वीजयति परैः / हरितानि शष्यादीनि न छिनत्ति स्वयं न छेदयति परैः, बीजानि हरितफलरूपाणि व्रीह्यादीनि सदा सर्वकालं विवर्जयन् संघटनादिक्रियया, सचित्तं नाहारयति यः कदाचिदप्यपुष्टालम्बनः स भिक्षुरिति सूत्रार्थः॥३॥ औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाह।वधनं हननं त्रसस्थावराणां द्वीन्द्रियादिपृथिव्यादीनां भवति कृतौद्देशिके, किंविशिष्टानां?- पृथिवीतृणकाष्ठनिश्रितानां तथा // 410 // समारम्भात्, यस्मादेवं तस्मादौदेशिकं कृताद्यन्यच्च सावधं न भुङ्क्ते, न केवलमेतत्, किंतु? नापि पचति स्वयं न पाचयति / अन्यैर्न पचन्तमनुजानाति यः स भिक्षुरिति सूत्रार्थः॥४॥किंच-रोचयित्वा विधिग्रहणभावनाभ्यां प्रियं कृत्वा, किंतदित्याह
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy