________________ सभिक्षुः श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 408 // 354-355 उपनयः। नियुक्तिः 356-357 निगमनम्। अगुणः अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपि न भवतीति गाथार्थः॥ 353 // एतदेव स्पष्टयन्नाह- दशममध्ययन नि०-जुत्तीसुवण्णगंपुण सुवण्णवण्णं तु जइवि कीरिजा / नहु होइ तं सुवण्णं सेसेहि गुणेहिं संतेहिं / / 354 // नियुक्तिः युक्तिसुवर्ण कृत्रिमसुवर्णमिह लोके सुवर्णवर्णं तु जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथापि नैव भवति तत्सुवर्ण / परमार्थेन शेषैर्गुणैः कषादिभिः असद्भिः अविद्यमानैरिति गाथार्थः॥ 354 // एवमेव किमित्याह नि०-जे अज्झयणे भणिआ भिक्खुगुणा तेहि होइ सो भिक्खू। वण्णेण जच्चसुवण्णगं व संते गुणनिहिंमि॥३५५॥ येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्तसमाध्यादयस्तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुर्नामस्थापनाद्रव्यभिक्षुव्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावृत्तित्वात् / किमिवेत्याह- वर्णेन पीतलक्षणेन जात्यसुवर्णमिव परमार्थसुवर्णमिव / सति गुणनिधौ विद्यमानेऽन्यस्मिन् कषादौ गुणसंघाते, एतदुक्तं भवति- यथाऽन्यगुणयुक्तं शोभनवर्णं सुवर्णं भवति तथा चित्तसमाध्यादिगुणयुक्तो भिक्षणशीलो भिक्षुर्भवतीति गाथार्थः // 355 // व्यतिरेकतः स्पष्टयति नि०- जो भिक्खू गुणरहिओ भिक्खं गिण्हइ न होइ सो भिक्खू। वण्णेण जुत्तिसुवण्णगं व असई गुणनिहिम्मि // 356 // / यो भिक्षुः गुणरहितः चित्तसमाध्यादिशून्यः सन् भिक्षामटति न भवत्यसौ भिक्षुर्भिक्षाटनमात्रेणैव, अपरिशुद्धभिक्षावृत्तित्वात्, किमिवेत्याह- वर्णेन युक्तिसुवर्णमिव, यथा तद्वर्णमात्रेण सुवर्णं न भवत्यसति गुणनिधौ कषादिक इति गाथार्थः / / 356 // किंच नि०- उद्दिट्टकयं भुंजइ छक्कायपमद्दओ घरं कुणइ / पञ्चक्खं च जलगए जो पियइ कह नुसो भिक्खू?॥ 357 // उद्दिश्य कृतं भुङ्क्त इत्यौद्देशिकमित्यर्थः, षट्कायप्रमर्दकः- यत्र क्वचन पृथिव्याधुपमईकः, गृहं करोति संभवत्येवैषणीयालये // 408 //