________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 406 // वयवद्वारंच। प्रव्रजितः-पापान्निष्क्रान्तः, अनगारो- द्रव्यभावागारशून्यः, पाषण्डी- पाशाड्डीनः, चरकः पूर्ववत्, ब्राह्मणश्चैव विशुद्धब्रह्मचारी दशममध्ययन चैव, परिव्राजकश्च- पापवर्जकश्च, श्रमणः पूर्ववत्, निर्ग्रन्थः संयतो मुक्त इत्येतदपि पूर्ववदेवेति गाथार्थः // 346 // तथा सभिक्षुः, नियुक्तिः 347 नि०-साहू लूहे अतहा तीरट्ठी होइचेव नायव्वो। नामाणि एवमाईणि होति तवसंजमरयाणं // 347 / / एकार्थिकसाधू रूक्षश्च तथे ति निर्वाणसाधकयोगसाधनात्साधुः स्वजनादिषु स्नेहविरहाद्र्क्षः तीरार्थी चैव भवति ज्ञातव्य इति तीरार्थी द्वारम्। नियुक्तिः भवार्णवस्य, नामानि एकार्थिकानि पर्यायाभिधानान्येवमादीनि यथोक्तलक्षणानि भवन्ति / केषामित्याह- तपःसंयमरतानां |348-349 भावसाधूनामिति गाथार्थः / / 347 // प्रतिपादितमेकार्थिकद्वारम्, इदानीं लिङ्गद्वारं व्याचिख्यासुराह लिङ्गद्वारमनि०- संवेगो निव्वेओ विसयविवेगो सुसीलसंसग्गो। आराहणा तवो नाणदसणचरित्तविणओ अ॥३४८॥ संवेगो मोक्षसुखाभिलाषः, निर्वेदः संसारविषयः, विषयविवेको विषयपरित्यागः, सुशीलसंसर्गः शीलवद्भिः संसर्गः, तथा आराधना चरमकाले निर्यापणरूपा, तपो यथाशक्त्यनशनाद्यासेवनम्, ज्ञानं यथावस्थितपदार्थविषयमित्यादि दर्शनं नैसर्गिकादि चारित्रं सामायिकादि विनयश्च ज्ञानादिविनय इति गाथार्थः // 348 // तथा नि०-खंती अमद्दवज्जव विमुत्तया तह अदीणय तितिक्खा। आवस्सगपरिसुद्धी अहोंति भिक्खुस्स लिंगाई॥३४९॥ __क्षान्तिश्च आक्रोशादिश्रवणेऽपि क्रोधत्यागश्च मार्दवार्जवविमुक्तते ति जात्यादिभावेऽपि मानत्यागान्मार्दवम्, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवम्, धर्मोपकरणेष्वप्यमूर्छा विमुक्तता, तथाऽशनाद्यलाभेऽप्यदीनता, क्षुदादिपरीषहोपनिपातेऽपि // 406 // तितिक्षा, तथा आवश्यकपरिशुद्धिश्च अवश्यंकरणीययोगनिरतिचारता च, भवन्ति भिक्षोः भावसाधोः लिङ्गानि अनन्तरोदितानि संवेगादीनीति गाथार्थः॥ 349 // व्याख्यातं लिङ्गद्वारम्, अवयवद्वारमाह