________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 405 // दशममध्ययनं सभिक्षुः, नियुक्तिः 344-346 एकार्थिकद्वारम्। सप्तदशप्रकारसंयमानुष्ठायी चरकः, एवं भवं संसारं क्षपयन् परीतं कुर्वन् स एव भवान्तो भवति नान्यथेति गाथार्थः // 343 // प्रकारान्तरेण निरुक्तमेवाह नि०-जंभिक्खमत्तवित्ती तेण व भिक्खूखवेइ जंव अणं / तवसंजमे तवस्सित्ति वावि अन्नोऽविपनाओ॥३४४॥ यद्यस्माद् भिक्षामात्रवृत्तिः भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समासः, तेन वा भिक्षुर्भिक्षणशीलो भिक्षुरितिकृत्वा, अनेनैव प्रसङ्गेन अन्येषामपि तत्पर्यायाणां निरुक्तमाह- क्षपयति यद् यस्माद्वा ऋणं कर्म तस्मात्क्षपणः, क्षपयतीति क्षपण इतिकृत्वा, तथा संयमतपसीति संयमप्रधानंतपः संयमतपस्तस्मिन् विद्यमाने तपस्वीति वापि भवति, तपोऽस्यास्तीतिकृत्वा, अन्योऽपि पर्याय इति- अन्योऽपि भेदोऽर्थतो भिक्षुशब्दनिरुक्तस्येति गाथार्थः // 344 / उक्तं निरुक्तद्वारम्, अधुनैकार्थिकद्वारमाह नि०-तिन्ने ताई दविए वई अखंते अदंत विरए ।मुणितावसपन्नवगुजुभिक्खूबुद्धे जइ विऊ अ॥३४५॥ तीर्णवत्तीर्णः विशुद्धसम्यग्दर्शनादिलाभाद्भवार्णवमिति गम्यते, तायोऽस्यास्तीति तायी, तायः सुदृष्टमार्गोक्तिः, सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः, द्रव्यं रागद्वेषरहितः, व्रती च हिंसादिविरतश्च, क्षान्तश्च क्षाम्यति क्षमा करोतीति क्षान्तः, बहुलवचनात् कर्तरि निष्ठा, एवं दाम्यतीन्द्रियादिदमं करोतीति दान्तः, विरतश्च विषयसुखनिवृत्तश्च, मुनिर्मन्यते जगतस्त्रिकालावस्थामिति मुनिः, तपःप्रधानस्तापसः, प्रज्ञापकोऽपवर्गमार्गस्य प्ररूपकः, ऋजुः- मायारहितः संयमवान् वा, भिक्षुः पूर्ववत्, बुद्धोऽवगततत्त्वः, यतिरूत्तमाश्रमी प्रयत्नवान् वा, विद्वांश्च- पण्डितश्चेति गाथार्थः // 345 // तथा नि०- पव्वइए अणगारे पासंडी चरग बंभणे चेव / परिवायगे असमणे निग्गंथे संजए मुत्ते // 346 // // 405 //