SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 404 // एवं स्त्र्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावाच्चाब्रह्मचारिण एत इत्याह नि०- इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ।सुद्धतवाभावाओ कुतित्थिआऽबंभचारित्ति // 340 // स्त्रीपरिग्रहा दिति दास्यादिपरिग्रहात् आज्ञादानादिभावसङ्गाच्च परिणामाशुद्धरित्यर्थः न च शाक्या भिक्षवः, शुद्धतपोऽभावा दिति शुद्धस्य तपसोऽभावात् तापसादयः कुतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोऽभिधीयते, तदचारिण इति गाथार्थः // 340 // उक्तो द्रव्यभिक्षुः, भावभिक्षुमाह नि०-आगमतो उवउत्तो तग्गुणसंवेअओ अ (उ) भावंमि। तस्स निरुत्तं भेअगभेअणभेत्तव्वएण तिहा // 341 // भावभिक्षुर्द्विविधः- आगमतो नोआगमतश्च, तत्रागमत उपयुक्त इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्तः, तद्गुणसंवेदकस्तु भिक्षुगुणसंवेदकः पुनर्नोआगमतो भवति भावभिक्षुरित्युक्तो भिक्षुनिक्षेपः / साम्प्रतं निरुक्तमभिधातुकाम आह- तस्य निरुक्त मिति 'तस्य' भिक्षोनिश्चितमुक्तमन्वर्थरूपं भेदकभेदनभेत्तव्यैरेभिर्भेदैर्वक्ष्यमाणैस्त्रिधा भवतीति गाथार्थः॥३४१॥ एतदेव स्पष्टयति नि०- भेत्ताऽऽगमोवउत्तो दुविह तवो भेअणं च भेत्तव्वं / अट्ठविहं कम्मखुहं तेण निरुत्तं स भिक्खुत्ति // 342 // भेत्ता भेदकोऽत्रागमोपयुक्तः साधुः, तथा द्विविधं बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा भेत्तव्यं विदारणीयं चाष्टविधं कर्म च-अष्टप्रकारं ज्ञानावरणीयादि कर्म, तच्च क्षुदादिदुःखहेतुत्वात् क्षुच्छब्दवाच्यम्, यतश्चैवं तेन निरुक्तं- यःशास्त्रनीत्या तपसा कर्म भिनत्ति स भिक्षुरिति गाथार्थः // 342 // किंच नि०- भिंदंतो अजह खुहं भिक्खू जयमाणओ जई होइ। संजमचरओ चरओ भवं खिवंतो भवंतो उ॥३४३॥ भिन्दंश्च विदारयंश्च यथा क्षुधं कर्म भिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषु स एव यतिर्भवति नान्यथा, एवं संयमचरकः दशममध्ययनं सभिक्षुः, नियुक्ति: 340 कुतीर्थिकाब्रह्मचारिकथनं भावभिक्षुनिक्षेपाश्च। नियुक्तिः 341-343 निरुक्तद्वारम्। // 404 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy